2023-09-24 02:42:15 by ambuda-bot
This page has not been fully proofread.
१८
कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ।
कुशलं जनाः स्वभावं शेषेष्वप्येष विनियोगः ॥ ७॥
इह जना धर्मावस्थाविदो मन्यन्ते कुशलानां धर्माणामेकोनविंशशतम् । तद्यथैकदेशो
विज्ञानस्य वेदनायाः संज्ञायाश्चेतनाया: स्पर्शस्य मनसिकारस्य छन्दस्याधिमोक्षस्य
वीर्यस्य स्मृतेः समाधेः प्रज्ञाया उपेक्षायाः प्रयोगस्य संप्रयोगस्य प्राप्तेरध्याशयस्या-
प्रतिघस्य रतेर्व्यवसायस्यौत्सुक्यस्योन्मुग्धेरुत्साहस्याविधातस्य वशितायाः प्रतिघातस्या-
विप्रतिसारस्य परिग्रहस्यापरिग्रहस्य... धृतेरध्यवसायस्यानौत्सुक्यस्थानुन्मुग्धेरनुत्साहस्य
प्रार्थनायाः प्रणिधेमंदस्य विषयाणां विप्रयोगस्यानैर्याणिकताया उत्पादस्य स्थितेरनि-
त्यतायाः समन्वागमस्य जरायाः परितापस्यारतेवितर्कस्य प्रीते: प्रसादस्य.. प्रेम्ण:
प्रतिकूलस्य प्रदक्षिणग्राहस्य वैशारद्यस्य गौरवस्य चित्रीकारस्य भक्तेरभक्तेः शुश्रुषाया
आदरस्यानादरस्य प्रश्नव्वेसिस्य वाचो विस्पन्दनाया: सिद्धस्याप्रसादस्याप्रश्रब्धेः.
दाक्षस्य सौरत्यस्य विप्रतिसारस्य शोकस्योपायासायासस्य... अप्रदक्षिणग्राहस्य संशयस्य
संवराणां परिशुद्धेरध्यात्मसंप्रसादस्य भीरुतायाः, श्रद्धा हीरार्जवमवञ्चनमुपशमोऽ-
चापलमप्रमोदो मार्दवं प्रतिसंख्यानं निर्वैरपरिदाहावमदोऽलोभोऽदोषोऽमोहः सर्वज्ञता-
प्रतिनिःसर्गो विभवोऽपत्राप्यमपरिच्छादनं मननं कारुण्यं मैत्र्यदीनतारणा... अनुपना-
होऽनीर्ष्या चेतसोऽपर्यादानं क्षन्तिर्व्यवसर्गोऽसौरत्यं परिभोगान्वयः पुण्यमसंज्ञिसमापत्ति-
नैर्याणिकतासर्वज्ञतासंस्कृता धर्मा इत्येकोनविंशशतं कुशलानां धर्माणां कुशलः स्वभावः
तथाऽकुशलानां धर्माणामकुशलः स्वभावः, निवृताव्याकृतानां निवृताव्याकृतः, प्रकृत-
व्याकृतानां प्रकृताव्याकृतः, कामोक्तानां कामोक्त: रूपोक्तानां रूपोक्तः, आरूप्योक्ता-
नामरूप्योक्तः, अनात्रवाणामनास्रवः, दुःखसमुदयनिरोधर्मार्गोक्तानां दुःखसमुदय-
निरोधमार्गोक्तः, भावनाप्रहातव्यानां भावनाप्रहातव्यः, अप्रहातव्यानामप्रहातव्यः
यस्मादेवमनेकप्रकारो धर्मस्वभावो दृष्टस्तस्माद् यदुक्तं निःस्वभावाः सर्वभावा निःस्व
भावत्वाच्छून्या इति तन्न ।
किञ्चान्यत् ।
नैर्याणिकस्वभावो धर्मा नैर्याणिकारच ये तेषाम् ।
धर्मावस्थोक्तानामेवमनैर्याणिकादीनाम् ॥ ८॥