This page has not been fully proofread.

४०
 
तस्मात् प्रतिषेधप्रतिषेध्येऽसति यद्भवान् मन्यते प्रतिषेधः प्रतिषिद्ध इति तन्न ।
यस्त्रिकालप्रतिषेधवाची हेतुरेष एव शून्यतावादिनां प्राप्तः सर्वभावस्वभावप्रतिषेधक-
त्वान्न भवतः ।
 
अथवा कथमेतदुक्तोत्तरम् ।
 
प्रेतिषेधयामि नाहं किञ्चित्प्रतिषेव्यमस्ति न च किञ्चित् ॥
तस्मात्प्रतिषेधयसीत्यधिलय एष त्वया क्रियते ॥
 
इति प्रत्युक्तम् । अथ मन्यसे त्रिष्वपि कालेषु प्रतिषेधः सिद्धः, दृष्टः पूर्वकालीनोऽपि
हेतुः, उत्तरकालीनोऽपि, युगपत्कालीनोऽपि हेतुः, तत्र पूर्वकालीनो हेतुर्यथा पिता
पुत्रस्य, पश्चात्कालीनो यथा शिष्य आचार्यस्य, युगपत्कालीनो यथा प्रदीपः प्रकाश-
स्येत्यत्र ब्रूमः । न चैतदेवम् । उक्ता ह्येतस्मिन् क्रमे त्रयः पूर्वदोषाः । अपि च यद्येवम्,
प्रतिषेधसद्भावस्त्वयाभ्युपगम्यते प्रतिज्ञाहानिश्च ते भवति । एतेन क्रमेण स्वभाव-
प्रतिषेधोऽपि सिद्धः ।
 
प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थः ॥
प्रभवति न तस्य किञ्चिन्न प्रभवति शून्यता यस्य ॥ ७० ॥
 
यस्य शून्यतेयं प्रभवति तस्य सर्वार्था लौकिकलोकोत्तराः प्रभवन्ति । किं कारणम् ।
यस्य हि शून्यता प्रभवति तस्य प्रतीत्य समुत्पादः प्रभवति । यस्य प्रतीत्यसमुत्पाद:
प्रभवति तस्य चत्वार्यार्यसत्यानि प्रभवन्ति । यस्य चत्वार्यार्यसत्यानि प्रभवन्ति तस्य
श्रामण्यफलानि प्रभवन्ति, सर्वविशेषाधिगमाः प्रभवन्ति । यस्य सर्वविशेषाधिगमाः
प्रभवन्ति तस्य त्रीणि रत्नानि बुद्धधर्मसंघाः प्रभवन्ति । यस्य प्रतीत्यसमुत्पादः प्रभवति
तस्य धर्मो धर्महेतुर्धर्मफलं च प्रभवन्ति, तस्याधर्मोऽधर्महेतुरधर्मफलं च प्रभवन्ति ।
यस्य धर्माधर्मो धर्माधर्महेतू धर्माधर्मफले च प्रभवन्ति तस्य क्लेश: क्लेशसमुदयः
क्लेशवस्तूनि च प्रभवन्ति । यस्यैतत्सर्वं प्रभवति पूर्वोक्तं तस्य सुगतिदुर्गतिव्यवस्था
सुगतिदुर्गतिगमनं, सुगतिदुर्गतिगामी मार्ग,: सुगतिदुर्गतिव्यतिक्रमणं, सुगतिदुर्गतिव्यति-
क्रमोपाय: सर्वसंव्यवहाराश्च लौकिका व्यवस्थापिताः । स्वयमधिगन्तव्या अनया