This page has not been fully proofread.

यथा पूर्वमुक्तं तथा ।
किञ्चान्यत् ।
 
अत्र ग्रूमः ।
 
३९
 
यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राहम् ॥
शेषेष्वप्येष विधिस्तस्मादेषोऽनुपालम्भः ॥ ६७ ॥
 
यदि मृगतृष्णायां जलग्राहः स्वभावतः स्यात् क एव तं विनिवर्तयेत् । न हि स्वभावः
शक्यो विनिवर्तयितुं यथाग्नेरुष्णत्वमपां द्रवत्वमाकाशस्य निरावरणत्वम् । दृष्टं चास्य
विनिवर्तनम् । तस्माच्छून्यस्वभावो ग्राहः । यथा चैतदेवम् शेषेष्वपि धर्मेष्वेष क्रमः
प्रत्यवगन्तव्यो ग्राह्यप्रभृतिषु पञ्चसु । तत्र यद्भवतोक्तं षट्कभावादशून्याः सर्वभावा
इति तन्न ।
यत्पुनर्भवतोक्तं
 
अत्र ब्रूमः ।
 
हेतोश्च ते न सिद्धिनःस्वभाव्यात्कुतो हि ते हेतुः ॥
निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्येति ॥
 
अथ ते हेत्वभाव: प्रत्युक्तः पूर्वमेव स समत्वात् ॥
मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्त: प्राक् ॥६८॥
 
एतेन चेदानी चर्चेन पूर्वोक्तेन हेत्वभावोऽपि प्रत्युक्तोऽवगन्तव्यः । य एव हि चर्च:
पूर्वस्मिन् हेतावुक्तः षट्कप्रतिषेधस्य स एवेहापि चर्चयितव्यः ।
पुनर्भवतो.
 
पूर्वं चेत्प्रतिषेधः पश्चात्प्रतिषेध्यमित्यनुपपन्नम् ॥
पश्चाच्चानुपपन्नो युगपच्च यतः स्वभावः सन् ॥ इति
 
यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् ।
त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः ॥६६॥
 
य एव हेतुस्त्रैकाल्ये प्रतिषेधवाची स उक्तोत्तरः प्रत्यवगन्तव्यः । कस्मात् । साध्य-
समत्वात । तथा हि त्वद्वचनेन प्रतिषेधस्त्रैकाल्येऽनुपपन्न प्रतिषेधवत्स प्रतिषेष्योऽपि ।
 
to