This page has not been fully proofread.

३८
 
यच्चाहर्ते वचनादसतः प्रतिषेधवचनासिद्धिरिति ॥
 
अत्र ज्ञापयते वागसदिति तन्न तच्च न प्रति निहन्ति ॥ ६४ ॥
 
यच्च भवान् ब्रवीति, ऋतेऽपि वचनादसतः प्रतिषेधः प्रसिद्धः, तत्र कि निःस्वभावाः
सर्वभावा इत्येतत्त्वद्वचनं करोतीति, अत्र ब्रूमः । निःस्वभावाः सर्वभावा इत्येतत्खलु
वचनं न निःस्वभावानेव सर्वभावान् करोति । किंतु असति स्वभावे भावा निःस्वभावा
ति ज्ञापयति । तद्यथा कश्चिद् ब्रूयादविद्यमानगृहे देवदत्तेऽस्ति गृहे देवदत्त इति ।
तत्रैनं कश्चित्प्रतिब्रूयान् नास्तीति । न तद्वचनं देवदत्तस्यासद्भावं करोति किंतु ज्ञापयति
केवलमसंभवं गृहे देवदत्तस्य । तद्द्वन्नास्ति स्वभावो भावानामित्येतद्वचनं न भावानां
निःस्वभावत्वं करोति किंतु सर्वभावेषु स्वभावस्याभावं ज्ञापयति । तत्र यद्भवतोक्तं
किमसति स्वभावे नास्ति स्वभाव इत्येतद्वचनं करोति, ऋतेऽपि वचनात् प्रसिद्धः स्वभा
वस्याभाव इति तन्न युक्तम् ।
 
अन्यच्च ।
 
बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः ।
एवं मिथ्याग्राहः स्यात्तं प्रतिषेधतो ह्यसतः ॥
 
इत्यादयो या पुनश्चतस्रो गाथा भवतोक्ता अत्र ब्रूमः ।
 
मृगतृष्णादृष्टान्ते यः पुनरुक्तस्त्वया महारचर्चः ॥
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥६५॥
 
य एष त्वया मृगतृष्णादृष्टान्ते महांश्चचं उक्तस्तत्रापि यो निर्णयः स श्रूयतां यथोप-
पन्न एष दृष्टान्तो भवति ।
 
यदि स्वभावतः स्याद् ग्राहो न स्यात्प्रतीत्य संभूतः ।
यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ ६६॥
 
यदि मृगतृष्णायां स यथा जलग्राहः स्वभावतः स्यान्न स्यात्प्रतीत्यसमुत्पन्नः यतो
मृगतृष्णाञ्च प्रतीत्य विपरीतञ्च दर्शनं प्रतीत्यायोनिशोमनस्कारञ्च प्रतीत्य स्यादु-
द्भूतोऽत: प्रतीत्यसमुत्पन्न: । यतश्च प्रतीत्यसमुत्पन्नोऽत: स्वभावतः शून्य एव ।
 
**