This page has not been fully proofread.

अत्र ब्रूमः ।
 
३७
 
सत एवं प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्ट: प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ इति
 
सत एव प्रतिषेधो यदि शून्यत्वं ननु प्रसिद्धमिदम् ॥
प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ ६१ ॥
 
यदि सत एव प्रतिषेधो भवति नासतो भवांश्च सर्वभावानां निःस्वभावत्वं प्रतिषेध-
यति, ननु प्रसिद्धं सर्वभावानां निःस्वभावत्वम् । त्वद्वचनेन प्रतिषेधसद्भावान् निःस्व-
भावत्वस्य च सर्वभावानां प्रतिषिद्धत्वात् प्रसिद्धा शून्यता ।
 
प्रतिषेधय सेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ॥
प्रतिषेधः सत इति ते नन्वेष विहीयते वादः ॥ ६२॥
 
अथ प्रतिषेधयसि त्वं सर्वभावानां निःस्वभावत्वं शून्यत्वं नास्ति तच्च शून्यत्वम्, या
तहि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति सा होना ।
किञ्चान्यत् ।
 
प्रतिषेधयामि नाहं किञ्चित् प्रतिषेध्यमस्ति न च किञ्चित् ॥
तस्मात्प्रतिषेधयसीत्यधिलय एष त्वया क्रियते ॥ ६३ ॥
 
यद्यहं किञ्चित्प्रतिषेधयामि ततस्तदपि त्वया युक्तमेव वक्तु स्यात् । न चैवाहं
किञ्चित् प्रतिषेधयामि, यस्मान्न किञ्चित्प्रतिषेद्धव्यमस्ति । तस्माच्छून्येषु सर्वभावे-
व्वविद्यमाने प्रतिषेध्ये प्रतिषेधे च प्रतिषेधयसीत्येष त्वया प्रस्तुतोऽधिलयः क्रियत इति ।
यत्पुनर्भवतोक्तम् ।
 
अथ नास्ति स स्वभावः किं नु प्रतिषिध्यते त्वयानेन ।
 
वचनेनर्ते वचनात्प्रतिषेधः सिध्यति (१) ह्यसत इति ॥
 
अत्र ब्रूमः ।
 
१ सिद्धूयते (JK).
 
*0