This page has not been fully proofread.

नामासदिति च यदिदं तत्कि नु सतो भवत्युताप्यसतः ॥
यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ ५५॥
 
यच्चैतन्नामासदिति तल्कि सतोऽसतो वा । यदि हि सतस्तन्नाम यद्यसत उभयथापि
प्रतिज्ञा हीयते । तत्र यदि तावत्सतो नामासदिति प्रतिज्ञा हीयते। न हीदानीं तदस-
दिदानीं सत् । अथासतोऽसदिति नाम, असद्भूतस्य नाम न भवति । तस्माद्या प्रतिशा
नाम्नः सद्भूतः स्वभाव इति सा होना ।
 
किञ्चान्यात् ।
 
अत्र ब्रूमः
 
सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् ।
 
स उपालम्भस्तस्माद् भवत्ययं चाप्रतिज्ञायाः ॥५६॥
 
इह चास्माभिः पूर्वमेव सर्वेषां भावानां विस्तरतः शून्यत्वमुपपादितम् । तत्र
प्राङ्नाम्नोऽपि शून्यत्वमुक्तम् । स भवानशून्यत्वं परिगृह्य परिवृत्तो वक्तुं यदि भावानां
स्वभावो न स्यादस्वभाव इति नामापीदं न स्यादिति तस्मादप्रतिज्ञोपालम्भोऽयं भवतः
संपद्यते । न हि वयं नाम सद्भूतमिति ब्रूमः ।
 
यत्पुनर्भवतोक्तम्
 
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मविना स्वभावः यस्य तद्युक्तमुपदेष्टुम् ॥ इति
 
अथ विद्यते स्वभावः स च धर्माणां न विद्यत इतीदम् ॥
आशङ्कतं यदुक्तं भवत्यनाशङ्कितं तच्च ॥६० ॥
 
न हि वयं धर्माणां स्वभावं प्रतिषेधयामो धर्मविनिर्मुक्तस्य वा कस्यचिदर्थस्य
स्वभावमभ्युपगच्छामः । नन्वेवं सति य उपालम्भो भवतो यदि धर्मा निःस्वभावाः
कस्य खल्विदानीमन्यस्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति स युक्तमुपदेष्टुमिति
दुरापकृष्टमेवैतद्भवति, उपालम्भो न भवति ।
पुनर्भवतो
 
2