This page has not been fully proofread.

३५
 
एवं सति प्रतीत्य समुत्पादं प्रत्याचक्षाणस्य भवतः को दोषः प्रसज्यते । धर्मो न
भवति । अधर्मो न भवति। संव्यवहारााश्च लौकिका न भवन्ति । कि कारणम् ।
प्रतीत्यसमुत्पन्नं ह्येतत्सर्वमस्ति प्रतीत्यसमुत्पादे कुतो भविष्यति । अपि च सस्वभावो-
प्रतीत्यसमुत्पन्नो निर्हेतुको नित्यः स्यात् । किं कारणम् । निर्हेतुका हि भावा नित्याः ।
स एव चाब्रह्मचर्यवासः प्रसज्येत । स्वसिद्धान्तविरोधश्च । किं कारणम् । अनित्या
हि भगवता सर्वसंस्कारा निर्दिष्टाः । ते सस्वभावनित्यत्वान्नित्या हि भवन्ति ।
 
अत्र ब्रूमः ।
 
एवमकुशलेष्वव्याकृतेषु नैर्याणिकादिषु च दोषः ॥
 
तस्मात्सर्वं संस्कृतमसंस्कृत ते भवत्येव ॥५६॥
 
यश्चैष कुशलेषु धर्मेषु निर्दिष्ट: कल्पः स एवाकुशलेषु, स एवाव्याकृतेषु, स ए-
नैर्याणिकप्रभृतिषु । तस्मात्ते सर्वमिदं संस्कृतमसंस्कृतं संपद्यते । कि कारणम् । हेतौ
ह्यसत्युत्पादस्थितिभंगा न भवन्ति । उत्पादस्थितिभंगेष्वसत्सु संस्कृतलक्षणाभावात्
सर्व संस्कृतमसंस्कृत संपद्यते । तत्र यदुक्तं कुशलादीनां भावानां स्वभावसद्भावाद-
शून्याः सर्वभावा इति तन्न । यत्पुर्नभवतोक्तं
 
यदि च न भवेत्स्वभावो धर्माणां निःस्वभाव इत्येव ।
नामापि भवेन्नैवं नाम हि निर्वस्तुकं नास्ति ।
 
यः सद्भूतं नामात्र ब्रूयात्सस्वभाव इत्येवम् ।
भवता प्रतिवक्तव्यो नाम ब्रूमश्च न वयं तत् ॥ ५७॥
 
यो नामात्र सद्भूतं ब्रूयात्सस्वभाव इति स भवता प्रतिवक्तव्यः स्यात् । यस्य
सद्भूतं नाम स्वभावस्य तस्मात्तेनापि स्वभावेन सद्भूतेन भवितव्यम् । न ह्यसद्भूतस्य
स्वभावस्य सद्भूतं नाम भवतीति । न पुनर्वयं नाम सद्भूतं ब्रूमः । तदपि हि भावस्व
भावस्याभावान्नाम निःस्वभाम्, तस्माच्छून्यम्, शून्यत्वादसद्भूतम् । तत्र सद्भवतोक्त ।
नामसद्भावात् सद्भूतः स्वभाव इति तन्न ।
 
किञ्चान्यत् ।