2023-09-24 02:42:18 by ambuda-bot
This page has not been fully proofread.
३४
यदि च कुशलानां धर्माणां स्वभावो हेतुप्रत्ययसामग्रीं प्रतीत्योत्पद्यते स परभावादु-
त्पन्नः कुशलानां धर्माणां कथं स्वभावो भवति । एवमेवाकुशलप्रभृतीनाम् । तत्र
यदुक्तं कुशलानाम् धर्माणां कुशलः स्वभावोऽप्युपदिष्टः, एवमकुशलादीनां
चाकुशलादिरिति तन्न ।
किञ्चान्यत् ।
अथ न प्रतीत्य किञ्चित् स्वभाव उत्पद्यते स कुशलानाम् ॥
धर्माणामेवं स्याद्वासो न ब्रह्मचर्यस्य ॥५४॥
अथ मन्यसे न किञ्चित्प्रतीत्य कुशलानां धर्माणां कुशलः स्वभाव उत्पद्यते, एवम-
कुशलानां धर्माणामकुशल: अव्याकृतानामव्याकृत इति एवम् सत्यब्रह्मचर्यवासो
भवति । किं कारणम् । प्रतीत्यसमुत्पादस्य ह्येवं सति प्रत्याख्यानं भवति । प्रतीत्य-
समुत्पादस्य प्रत्याख्यानात् प्रतीत्यसमुत्पाददर्शन प्रत्याख्यानं भवति। न ह्यविद्यमानस्य
प्रतीत्यसमुत्पादस्य दर्शनमुपपद्यमानं भवति । असति प्रतीत्यसमुत्पाददर्शने धर्मदर्शन
न भवति । उक्तं हि भगवता यो हि भिक्षवः प्रतीत्यसमुत्पादं पश्यति स धर्मं पश्यतीति ।
धर्मदर्शनाभावाद् ब्रह्मचर्यवासाभावः ।
अथवा प्रतीत्यसमुत्पादप्रत्याख्यानाद् दुःखसमुदयप्रत्याख्यानं भवति । प्रतीत्यसमु
त्पादो हि दुःखस्य समुदयः । दुःखसमुदयस्य प्रत्याख्यानाद् दुःखप्रत्याख्यानं भवति ।
असति हि समुदये तत्कुतो दुःख समुदेष्यति । दुःखप्रत्याख्यानात् समुदयप्रत्याख्यानाच्च
दुःखनिरोधस्य प्रत्याख्यानं भवति । असति हि दुःखसमुदये कस्य प्रहाणान्निरोधो
भविष्यति । (दुःखनिरोधप्रत्याख्यानान्मार्गस्य प्रत्याख्यानं भवति) । असति हि दुःख-
निरोधे कस्य प्राप्तये मार्गो भविष्यति दुःखनिरोधगामी एवं चतुर्णामार्यसत्यानाम-
भावः । तेषामभावाच्छ्रामण्यफलाभावः । सत्यदर्शनाच्छ्रामण्यफलानि हि समधि-
गम्यन्ते। श्रामण्यफलानामभावादब्रह्मचर्यवास इति ।
किञ्चान्यत् ।
नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः ॥
नित्याश्च सस्वभावाः स्युनित्यत्वादहेतुमतः ॥५५॥