2023-09-24 02:42:15 by ambuda-bot
This page has not been fully proofread.
१६
स पुनः कथमिति । हन्त चेत् पुनः शून्याः सर्वभावाः, तेन त्वद्वचनं शून्यम्, सर्वभावान्त-
गंतत्वात् । तेन शून्येन प्रतिषेधानुपपत्तिः । तत्र यः प्रतिषेधः शून्याः सर्वभावा इति
सोऽनुपपन्नः। उपपन्नश्चेत् पुनः शून्याः सर्वभावा इति प्रतिषेधः, तेन त्वद्वचनमपि (प्य? - )
शून्यम् । ( अ ) शून्य त्वादनेन प्रतिषेधोऽनुपपन्नः । अथ शून्याः सर्वभावास्त्वद्वचन.
ञ्चाशून्यम्, येन प्रतिषेधः, तेन त्वद्वचनं सर्वत्रासंगृहीतम् । तत्र दृष्टान्तविरोधः।
सर्वत्र चेत्पुनः संगृहीतं त्वद्वचनं सर्वभावाश्च शून्याः, तेन तदपि शून्यम् । शून्यत्वादनेन
नास्ति प्रतिषेधः । अथ शून्यमस्ति चानेन प्रतिषेधः शून्याः सर्वभावा इति, तेन
शून्या अपि सर्वभावाः कार्यक्रयासमर्था भवेयुः । न चैतदिष्टम् । अथ शून्या:
सर्वभावाः, न च कार्यक्रियासमर्था भवन्ति मा भूद् दृष्टान्तविरोध इति कृत्वा, शून्येन
त्वद्वचनेन सर्वभावस्वभावप्रतिषेधो नोपपन्न इति ।
किञ्चान्यत् । एवं तदस्तित्वाद् वैषमिकत्वप्रसङ्गः किञ्चिच्छून्यम् किञ्चिद-
शून्यमिति । तस्मिंश्च वैषमिकत्वे विशेषहेतुर्वक्तव्यो येन किञ्चिच्छून्यम् किञ्चिद-
शून्यं स्यात् । स च नोपदिष्टो हेतुः । तत्र यदुक्तं शून्याः सर्वभावा इति तन्न ।
किञ्चान्यत् ।
मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् ॥
शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥ ३ ॥
स्यात्ते बुद्धिः, यथा नाम कश्चिद् ब्रूयान्मा शब्द कार्षीरिति स्वयमेव शब्दं कुर्यात्तेन
च शब्देन तस्य शब्दस्य व्यावर्तनं क्रियेत, एवमेव शून्याः सर्वभावा इति शून्येन वचनेन
सर्वभावस्वभावस्य व्यावर्तनं क्रियत इति ।
अत्र वयं ब्रूमः । एतदप्यनुपपन्नम् । किं कारणम् । सता ह्यत्र शब्देन भविष्यतः
शब्दस्य प्रतिषेधः क्रियते। न पुनरिह भवतः सता वचनेन सर्वभावस्वभावप्रतिषेधः
क्रियते । तव हि मतेन वचनमप्यसत् सर्वभावस्वभावोऽप्यसन् । तस्मादयं मा
शब्दवदिति विषमोपन्यासः ।