This page has not been fully proofread.

३३
 
प्रमाणानि कतराणि प्रमेयाणि उभयान्यपि ह्येतानि साधकत्वात् प्रमाणानि साध्यत्वात्
प्रमेयाणि । अत्र नः संदेहो भवति कतराण्यंत्र प्रमाणानि कतराणि प्रमेयाणीति ।
 
नैव स्वतः प्रसिद्धिर्न परस्परतः परप्रमाणैर्वा ॥
 
न भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम् ॥५१॥
 
न स्वतः प्रसिद्धिः प्रत्यक्षस्य तेनैव प्रत्यक्षेण, अनुमानस्य तेनैवानुमानेन, उपमानस्थ
तेनैवोपमानेन, आगमस्य तेनैवागमेन । नापि परस्परतः प्रत्यक्षस्यानुमानोपमानागमैः
अनुमानस्य प्रत्यक्षोपमानागमैः, उपमानस्य प्रत्यक्षानुमानागमै: आगमस्य प्रत्यक्षानु-
मानोपमानैः नापि प्रत्यक्षानुमानोपमानागमानामन्यैः प्रत्यक्षानुमानोपमागमैर्यथास्वम् ।
 
नापि प्रमेयैः समस्तव्यस्तैः स्वविषयपरविषयसंगृहीतः । नाप्यकस्मात् । नापि
समुच्चयेनैतेषां कारणानां पूर्वोद्दिष्टानां विशत्रिशच्चत्वारिंशत्ष द्विशते (?)र्वा । तत्र
यदुक्तं प्रमाणाधिगम्यत्वात् प्रमेयाणां भावानां सन्ति च ते प्रमेया भावास्तानि च प्रमा-
णानि यैस्ते प्रमाणैः प्रमेयाभावाः समधिगता इति तन्न । यत्पुर्नभवतोक्तम् ।
 
कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते ॥
कुशलं जनाः स्वभावं शेषेष्वप्येष विनियोग ॥ इति
 
अत्र ब्रूमः ।
 
कुशलानां धर्माणां धर्मावस्थाविदो ब्रुवन्ति यदि ॥
कुशलं स्वभावमेवं प्रविभागेनाभिधेय: स्यात् ॥५२॥
 
कुशलानां धर्माणां धर्मावस्थाविदः कुशलं स्वभावं मन्यन्ते । स च भवता प्रविभागे-
नोपदेष्टव्यः स्यात् । अयं स कुशलः स्वभावः । इमे ते कुशला धर्माः । इदं तत्कुशलं
विज्ञानम् । अयं स कुशलविज्ञानस्वभावः । एवं सर्वेषाम् । न चैतदेवं दृष्टम् ।
तस्माद्यदुक्तं यथास्वमुपदिष्टः स्वभावो धर्माणामिति तन्न ।
 
किञ्चान्यत् ।
 
यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् ॥
धर्माणां परभावः स्वभाव एवं कथं भवति ॥५३॥
 
*0