2023-09-24 02:42:18 by ambuda-bot
This page has not been fully proofread.
३२
अथ मन्यसे प्रमाणसिद्ध्या प्रमेयसिद्धिर्भवति प्रमाणापेक्षत्वात् प्रमेयसिद्ध्या च
प्रमाणसिद्धिर्भवति प्रमेयापेक्षत्वादिति, एवं ते सत्युभयस्यापि सिद्धिनं भवति । किं
कारणम् ।
सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव ॥
साध्यानि च प्रमेयैस्तानिथं साधयिष्यन्ति ॥४७॥
यदि हि प्रमाणैः प्रमेयाणि सिध्यन्ति तानि च प्रमाणानि तैरेव प्रमेयैः साधयितव्यानि
नन्वसिद्धेषु प्रमेयेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमेयाणि ।
सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव ॥
साध्यानि च प्रमाणैस्तानि कथं साधयिष्यन्ति ॥४८॥
यदि च प्रमेयः प्रमाणानि सिध्यन्ति तानि च प्रमेयाणि तैरेव प्रमाणैः साधयितव्यानि
नन्वसिद्धेषु प्रमाणेषु कारणस्यासिद्धत्वादसिद्धानि कथं साधयिष्यन्ति प्रमाणानि ।
पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण ॥
उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ ४६॥
।
यथापि नाम कश्चिद् ब्रूयात्पित्रा पुत्र उत्पादनीयः सच पिता तेनैव पुत्रेणोत्पादनीय
इति, तत्रेदानीं ब्रूहि केन के उत्पादयितव्य इति । तथैव खलु भवान् ब्रवीति प्रमाणैः
प्रमेयाणि साधयितव्यानि तान्येव च पुनः प्रमाणानि तैरेव प्रमेयैरिति तत्रेदानीं ते
कतमैः कतमानि साधयितव्यानि ।
कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपिच ।
पितापुत्रलक्षणधरौ यतो भवति नोऽत्रसंदेहः ॥ ५० ॥
तयोश्च पूर्वोपदिष्टयोः पितापुत्रयोः कतरः पुत्रः कतरः पिता उभावपि तावुत्पा
दकत्वात् पितृलक्षणधरावुत्पाद्यत्वाच्च पुत्रलक्षणधरी । अत्र नः संदेहो भवति कतरस्त
त्रपिता कतरः पुत्र इति । एवमेव यान्येतानि भवतः प्रमाणप्रमेयाणि तत्र कतराणि
२ -पितृ 'jK'