This page has not been fully proofread.

अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र भवति को दोषः ।
सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत् ॥४२॥
 
अथापि मतमपेक्ष्य प्रमेयानर्थान् प्रमाणानां सिद्धिर्भवतीति एवं सिद्धस्य प्रमाण-
चतुष्टयस्य साधनं भवति । कि कारणम् । न ह्यसिद्धस्यार्थस्यापेक्षणं भवति । न
ह्यसिद्धो देवदत्तः कंचिदर्थमपेक्षते । न च सिद्धस्य साधन मष्टं कृतस्य कारणानुप-
पत्तेरिति ।
किञ्चान्यत् ।
 
सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि ॥
भवति प्रमेयसिद्धिर्नापेक्ष्यैव प्रमाणानि ॥४३॥
 
यदि प्रमेयाण्यपेक्ष्य प्रमाणानि सिध्यन्ति नेदानीं प्रमाणान्यपेक्ष्य प्रमेयाणि सिध्यन्ति
कि कारण म्। न हि साध्यं साधनं साधयति साधनानि च किल प्रमेयाणां
प्रमाणानि । किञ्चान्यत् ।
 
यदि च प्रमेयसिद्धिर्नापेक्ष्यैव भवति प्रमाणानि ।
 
कि ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥४४॥
 
यदि च मन्यसेऽनपेक्ष्यैव प्रमाणानि प्रमेयाणां प्रसिद्धिर्भवतीति किमिदानीं ते प्रमाण
सिद्ध्या पर्यन्विष्टया । किं कारणम् । यदर्थं हि तानि प्रमाणानि पर्यन्विष्येरन् ते प्रमेया
अर्था विनापि प्रमाणैः सिद्धाः । तत्र कि प्रमाणैः कृत्यम् ।
 
अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि ।
 
व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥४५॥
 
अथापि मन्यसेऽपेक्ष्यैव प्रमेयानर्थान् प्रमाणानि भवन्तीति मा भूत्पूर्वोक्तदोष इति
कृत्वा, एवं ते सति व्यत्ययः प्रमाणप्रमेयाणां भवति । प्रमाणानि ते प्रमेयाणि भवन्ति
प्रमेयैः साधितत्वात् । प्रमेयाणि च प्रमाणानि भवन्ति प्रमाणानां साधकत्वात् ।
 
अथ ते प्रमाणसिद्धूया प्रमेयसिद्धिः प्रमेयसिद्ध्या च ॥
भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥४६॥