This page has not been fully proofread.

उत्पद्यमान एवं प्रकाशयत्यग्निरित्यसद्वादः ॥
उत्पद्यमान एवं प्राप्नोति तमो न हि हुताशः ॥ ३८॥
 
अयमग्निरुत्पद्यमान एव प्रकाशयति स्वात्मानं परात्मानं चेति नायमुपपद्यते वादः ।
कस्मात् । नह्य त्पद्यमान एवाग्निस्तमः प्राप्नोति, अप्राप्तत्वान्नैवोपहन्ति तमसश्चा-
नुपघातान्नास्ति प्रकाशः ।
किञ्चान्यत् ।
 
अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् ॥
 
सर्वेषु लोकधातुषु तमोऽयमिह संस्थितो हन्यात् ॥३६॥
 
अथापि मन्यसेऽप्राप्तोप्यग्निरन्धकारमुपहन्तीति नन्विदानीमिह संस्थितोऽग्निः सर्व-
लोकधातुस्थमुपहनिष्यति तमस्तुल्यायामप्राप्तौ । न चैतदेवं दृष्टंम् । तस्मादप्राप्यैवा-
ग्निरन्धकारमुपहन्तीति यदिष्टं तन्न ।
किञ्चान्यत् ।
 
यदि स्वतश्च प्रमाणसिद्धिरनपेक्ष्य तव प्रमेयाणि ॥
 
भवति प्रमाणसिद्धिर्न परापेक्षा स्वतः सिद्धिः ॥४०॥
 
यदि चाग्निवत् स्वतः प्रमाणसिद्धिरिति मन्यसे, अनपेक्ष्यापि प्रमेयानर्थान् प्रमाणानां
प्रसिद्धिर्भविष्यति । कि कारणंम् । न हि स्वतः सिद्धिः परमपेक्षते । अथापेक्षते न
स्वतः सिद्धिः । अत्राह यदि नापेक्षन्ते प्रमेयानर्थान् प्रमाणानि को दोषो भविष्यतीति ।
अत्रोच्यते ।
 
अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिरिति ॥
 
भवन्ति कस्यचिदेवमिमानि तानि प्रमाणानि ॥४१॥
 
यदि प्रमेयानर्थाननपेक्ष्य प्रसिद्धिर्भवति प्रमाणानामित्येवं तानीमानि प्रमाणानि न
 
1
 
कस्यचित् प्रमाणानि भवन्ति । एवं दोषः । अथ कस्यचिद्भवन्ति प्रमाणानि नैवे-
दानीमनपेक्ष्य प्रमेयानर्थान् प्रमाणानि भवन्ति ।
 
SARA AN