This page has not been fully proofread.

२९
 
प्रागग्निस्तमसि स्यादुत्तरकालमग्ने: प्रकाशनं स्यात्, अतः स्वात्मानं प्रकाशयत् । न
चैतदेवम् । तस्मादियमपि कल्पना नोपपद्यत इति ।
 
किञ्चान्यत् ।
 
यदि च स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः ।
परमिव नन्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ ३५॥
 
यदि च त्वद्वचनेन यथा परात्मानं प्रकाशयत्यग्निरेवमेव स्वात्मानमपि प्रकाशयति,
ननु यथा परात्मानं दहत्येवमेव स्वात्मानमपि धक्ष्यति । न चैतदेवम् । तत्र यदुक्तं
परात्मानमिव स्वात्मानमपि प्रकाशयत्यग्निरिति तन्न ।
 
यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः ॥
प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ ३६ ॥
 
यदि च भवतो मतेन स्वपरात्मानी प्रकाशयत्यग्निः, नन्विदानीं तत्प्रतिपक्षभूतं
तमोऽपि स्वपरात्मानौ छादयेत् । न चैतद् दृष्टम् । तत्र यदुक्तं स्वपरात्मानौ प्रकाशय-
त्यग्निरिति तन्न ।
किञ्चान्यत् ।
 
नास्ति तमश्च ज्वलने यत्र च तिष्ठति परात्मनि ज्वलनः ॥
कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवधः ॥ ३७॥
 
इह चाग्नौ नास्ति तमो नापि च यत्राग्निस्तत्रास्ति तमः । प्रकाशश्च नाम तमसः
प्रतिघातः । यस्माच्चाग्नौ नास्ति तमो नापि च यत्राग्निस्तत्रास्ति तमः, तत्र कस्य
तमसः प्रतिघातमग्निः यस्य प्रतिघातादग्निः स्वपरात्मानौ प्रकाशयतीति ।
 
अत्राह । ननु यस्मादेवं नाग्नौ तमोऽस्ति नापि यत्राग्निस्तत्र तमोऽस्ति, तस्मादेव
स्वपरात्मानौ न प्रकाशयत्यग्निः कुतः । तेन ह्यत्पद्यमानेनैवाग्निना तमसः प्रतिघातः ।
तस्मान्नाग्नौ तमोऽस्ति नापि यत्राग्निस्तत्र तमोऽस्ति यस्मादुत्पद्यमान एवोभयं प्रकाशय-
त्यग्निः स्वात्मानं परात्मानंचेति । अत्रोच्यते ।
 
C
 
**