This page has not been fully proofread.

२८
 
नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्त्यस्य ॥३२॥
 
अनवस्थाप्रसङ्ग आदे: सिद्धिर्नास्ति । किं कारणम् । तेषामपि हि प्रमाणानामन्यै
प्रमाणै: प्रसिद्धिस्तेषामन्यैरिति नास्त्यादिः । आदेरस झावात् कुतो मध्यं कुतोऽन्तः ।
तस्मात्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिरिति यदुक्तं तन्नोपपद्यत इति ।
 
तेषामथ प्रमाणविना प्रसिद्धिविहीयते वादः ॥
 
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥३३ ॥
 
अथ मन्यसे तेषां प्रमाणानां विना प्रमाणैः प्रसिद्धिः, प्रमेयाणां पुनरर्थानां प्रमाणै:
प्रसिद्धिरिति, एवं सति यस्ते वादः प्रमाणैः प्रसिद्धिरर्थानाम् इति स हीयते । वैषमिकत्वं
च भवति केषांचिदर्थानां प्रमाणैः प्रसिद्धिः केषाञ्चिन्नेति । विशेषहेतुश्च वक्तव्यो येन
हेतुना केषांचिदर्थानां प्रमाणैः प्रसिद्धिः केषांचिन्नेति । स च नोपदिष्टः । तस्मादिय-
मपि कल्पना नोपपन्नेति ।
 
अत्राह । प्रमाणान्येव स्वात्मानं परात्मानञ्च प्रसाधयन्ति । यथोक्तं
 
द्योतयति स्वात्मानं यथा हुताशस्तथा परात्मानम् ।
 
स्वपरात्मानावेवं प्रसाधयन्ति प्रमाणानि ॥ इति
 
यथाग्निः स्वात्मानं परात्मानञ्च प्रकाशयति तथैव प्रमाणानि प्रसाधयन्ति स्वात्मानं
परात्मानञ्चेति ।
 
अत्रोच्यते
 
विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः ॥
न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ।॥ ३४ ॥
 
विषम एवोपन्यासोऽग्निवत् प्रमाणानि स्वात्मानञ्च प्रसाधयन्ति परात्मानञ्च
प्रसाधयन्तीति । न ह्यग्निरात्मानं प्रकाशयति । यथा प्रागेवाग्निना प्रकाशितस्तमसि
कुम्भो नोपलभ्यतेऽथोत्तरकालमुपलभ्यतेऽग्निना प्रकाशितः सन्, एवमेव यद्यप्रकाशित