This page has not been fully proofread.

२७
 
प्रत्यक्षेण हि तावद्यधुपलभ्य विनिवर्तयसि भावान् ।
तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥
 
• अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च ।
अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च ॥ इति
अत्र वयं ब्रूमः ।
 
यदि किञ्चिदुपलभेय प्रवर्तयेयं निवर्तयेयं वा ।
प्रत्यक्षादिभिरर्थेस्तदभावान्मेऽनुपालम्भः ॥ ३० ॥
 
यद्यहं किञ्चिदर्थमुपलभेय प्रत्यक्षानुमानोपमानागमैश्चतुर्भिः प्रमाणैश्चतुर्णां वा
प्रमाणानामन्यतमेन, अत एव प्रवर्तयेयं वा निवर्तयेयं वा । यतोऽर्थमेवाहं किञ्चिन्नो
पलभे तस्मान्न प्रवर्तयामि न निवर्तयामि ।
 
तत्रैवं सति यो भवतोपालम्भ उक्तो यदि प्रत्यक्षादीनां प्रमाणानामन्यतमेनोपलभ्य
भावान्विनिवर्तयसि तानि प्रमाणानि न सन्ति, तैश्च प्रमाणैरपि गम्या अर्था न
सन्तीति स मे भवत्येवानुपालम्भः ।
किश्वान्यत् ।
 
यदि च प्रमाणतस्ते तेषां तेषां प्रसिद्धिरर्थानाम् ।
तेषां पुनः प्रसिद्धि ब्रूहि कथं ते प्रमाणानाम् ॥ ३१॥
 
यदि च प्रमाणतस्तेषां तेषामर्थानां प्रमेयाणां प्रसिद्धि मन्यसे यथा मानैर्मेयानाम्,
तेषामिदानीं प्रत्यक्षानुमानोपमानागमानां चतुर्णां प्रमाणानां कुतः प्रसिद्धिः । यदि
तावन्निष्प्रमाणानां प्रमाणानां स्यात्प्रसिद्धिः, प्रमाणतोऽर्थानां प्रसिद्धिरिति हीयते
प्रतिज्ञा । तथापि ।
 
अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवेत्तदनवस्था ।
 
यदि पुनमंन्यसे प्रमाणैः प्रमेयाणां प्रसिद्धिस्तेषां प्रमाणानामन्यैः प्रमाणैः प्रसिद्धिरेव-
मनवस्थाप्रसंगः । अनवस्थाप्रसङ्ग को दोषः ।
 
00