This page has not been fully proofread.

( २६ )
 
अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता ॥
संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥२८॥
 
मा शब्दवदिति साध्यसम एवायं हेतुः । कस्मात् । सर्वभावानां नैः स्वाभाव्येना-
विशिष्टत्वात् । न हि तस्य ध्वनेः प्रतीत्यसमुत्पन्नत्वात् स्वभावसत्ता विद्यते । तस्याः
स्वभावसत्ताया अविद्यमानत्वाद्यदुक्तं शब्देन ह्यत्र सता भविष्यतो वारणं तस्येति
तद्व्याहन्यते ।
 
अपि च न वयं व्यवहारसत्यमनभ्युपगम्य व्यवहारसत्यं प्रत्याख्याय कथयामः शून्या:
सर्वभावा इति । न हि व्यवहारसत्यमनागम्य शक्या धर्मदेशना कर्तुम् । यथोक्तं-
व्यवहारमनाश्रित्य परमार्थो न देश्यते ।
 
परमार्थमनागम्य निर्वाणं नाधिगम्यत । इति
 
तस्मान्मद्वचनवच्छून्याः सर्वभावाः सर्वभावानां च निःस्वभावत्वमुभयथोपपद्यमा-
नमिति ।
 
यत्पुर्नभवतोक्तम्
 
प्रतिषेधप्रतिषेधोऽप्येवमिति मतं भवेत् तदसदेव ।
एवं तव प्रतिज्ञा लक्षणतो दूष्यते न मम ॥ इति
 
अत्र ब्रूमः ।
 
यदि काचन प्रतिज्ञा स्यान्मे तत एष मे भवेद्दोषः ।
नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥२६॥
 
यदि च काचन मम प्रतिज्ञा स्यात् ततो मम प्रतिज्ञालक्षणप्राप्तत्वात्पूर्वको दोषो
यथा त्वयोक्तस्तथा मम स्यात् । न मम काचिदस्ति प्रतिज्ञा । तस्मात् सर्वभावेषु
शून्येष्वत्यन्तोपशान्तेषु प्रकृतिविविक्तेषु कुतः प्रतिज्ञा । कुतः प्रतिज्ञालक्षणप्राप्तिः ।
कुतः प्रतिज्ञालक्षणप्राप्तिकृतो दोषः ।
 
तत्र यद्भवतोक्तं तव प्रतिज्ञालक्षणप्राप्तत्वात्तवैव दोष इति तन्न ।
यत्पुर्नभवतोक्तम