This page has been fully proofread once and needs a second look.

२५
 

मा शब्दवदिति नायं दृष्टान्तो यस्त्वया समारब्धः ॥

शब्देन तच्च शब्दस्य वारणं नैवमेवैतत् ॥२५॥
 

 
नाप्ययमस्माकं दृष्टान्तः । यथा कश्चिन् मा शब्दं कार्षीरिति ब्रुवन् शब्दमेव करोति
शब्दं च प्रतिषेधयति, तद्वत् तच्छून्यं वचनं न शून्यतां प्रतिषेधयति । किं कारणम् ।
अत्र हि दृष्टान्ते शब्देन शब्दस्य व्यावर्तनं क्रियते । न चैतदेवम् । वयं ब्रूमो निःस्वभावाः

सर्वभावा निःस्वभावत्वाच्छून्या इति । कि कारणम् ।
 

 
नैः स्वाभाव्यानां चेन्नै: स्वाभाव्येन वारणं यदि हि ।

नै: स्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ २६ ॥
 

 
यथा मा शब्दं कार्षीरिति शब्देन शब्दस्य व्यावर्तनं क्रियते, एवं यदि नैः स्वाभाव्येन
वचनेन नैः स्वाभाव्यानां भावानां व्यावर्तनं क्रियते ततोऽयं दृष्टान्त उपपन्न: स्यात् ।
इह तु नैःस्वाभाव्येन वचनेन भावानां स्वभावप्रतिषेधः क्रियते । यदि नैःस्वाभाव्येन

वचनेन भावानां नैःस्वाभाव्यप्रतिषेधः क्रियते नै: स्वाभाव्यप्रतिषिद्धत्वादेव भावाः
सस्वभावा भवेयुः । सस्वभावत्वादशून्याः स्युः । शून्यतां च वयं भावानामाचक्ष्महे
नाशून्यतामित्यदृष्टान्त एवायमिति ।
 

 
अथवा निर्मितकायां यथा स्त्रियां स्त्रीर्यामित्यसद्ग्राहम् ॥

निर्मितक: प्रतिहन्यात् कस्यचिदेवं भवेदेतत् ॥ २७॥
 

 
अथवा यथा कस्यचित्पुरुषस्य निर्मितकायां स्त्रियां स्वभावशून्यायां परमार्थतु
स्त्रीयमित्यसद्ग्राहः स्यात्, एवं तस्यां तेनासद्ग्राहेन स रागमुत्पादयेत् । तथागतेनः
वा तथागतश्रावकेण वा निर्मितको निर्मित: स्यात् । तथागताधिष्ठानेन वा तथागत-
श्रावकाधिष्ठानेन वा स तस्य तमसद्ग्राहं विनिवर्तयेत् । एवमेव निर्मितकोपमेन
शून्येन मद्वचनेन निर्मितकस्त्रीसदृशेषु सर्वभावेषु निःस्वभावेषु योऽयं स्वभावग्राहः स
निवर्त्यते । तस्मादयमत्र दृष्टान्तः शून्यताप्रसाधनं प्रत्युपपद्यमानो नेतरः ।