This page has not been fully proofread.

प्रतिषेधयेत् तत्र यो निर्मितकः पुरुषः प्रतिषिध्यते सोऽपि शून्यः । यः प्रतिषेधयति
सोऽपि शून्य: । यो मायापुरुषः प्रतिषिध्यते सोऽपि शून्यः । यः प्रतिषेधयति सोऽपि
शन्य: । एवमेव मद्वचनेन शून्येनापि सर्वभावानां स्वभावप्रतिषेध उपपन्नः । तत्र
यद्भवतोक्तं शून्यत्वात्वद्वचनस्य सर्वभावस्वभावप्रतिषेधो नोपपन्न इति तन्न । तत्र
यो भवता षट्कोटिको वाद उक्तः सोऽपि तेनैव प्रतिषिद्धः । नैव ह्येवं सति न सर्वभावा-
न्तर्गतं मद्वचनं, नास्त्य शून्यम्, नापि सर्वभावा अशून्याः ।
यत्पुनर्भवतोक्तम्
 
२४
 
अथ सस्वभावमेतद्वाक्यं पूर्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ इति
 
अत्रापि ब्रूमः ।
 
न स्वाभाविकमेतद्वाक्यं तस्मान्न वादहानिमें ।
नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगाद्यः ॥ २४ ॥
 
न तावन्मसंतद्वचनं प्रतीत्यसमुत्पन्नत्वात् स्वभावोपपन्नम्। यथा पूर्वमुक्तं स्वभावा
नुपपन्नत्वाच्छून्यमिति । यस्माच्चेदमपि मद्वचनं शून्यं शेषा अपि सर्वभावाः शून्याः
तस्मान्नास्ति वैषमिकत्वम् । यदि हि वयं ब्रूम इदं वचमशून्यं शेषाः सर्वभावाः शून्या
इति ततो वैषमिकत्वं स्यात् । न चैतदेवम् । तस्मान्न वैषमिकत्वम् । यस्माच्च
वैषमिकत्वं न संभवतीदं वचनमशून्यं शेषाः पुनः सर्वभावाः शून्या इति, तस्मादस्माभि-
विशेषहेतुर्न वक्तव्योऽनेन हेतुनेदं वचनमशून्यं सर्वभावाः पुनः शून्या इति । तत्र यद्भव-
तोक्तं वादहानिस्ते वैषमिकत्वं च विशेषहेतुश्च त्वया वक्तव्य इति तन्न ।
यत्पुनर्भवतोक्तम्
 
मा शब्दवदित्येतत्स्यात्ते बुद्धिर्न चैतदृपपन्नम्।
शब्देन ह्यत्र सता भविष्यतो वारणं तस्य ॥ इति
 
अत्र ब्रूमः ।