This page has been fully proofread once and needs a second look.

विग्रहव्यावर्तनी
 
सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् ।
त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ १ ॥
 
यदि सर्वेषां भावानां हेतौ प्रत्ययेषु च हेतुप्रत्ययसामग्याञ्च पृथक् च सर्वत्र स्वभावो न विद्यत इति कृत्वा शून्याः सर्वभावा इति । नहि बीजे हेतुभूतेऽङ्कुरोऽस्ति न पृथिव्यप्तेजोवाय्वादीनामेकैकस्मिन् प्रत्ययसंज्ञिते, न प्रत्ययेषु समग्रेषु, न हेतुप्रत्ययसामग्र्याम्, न हेतुप्रत्ययविनिर्मुक्तः पृथगेव च । यस्मादत्र सर्वत्र स्वभावो नास्ति तस्मान्नि:स्वभावोऽङ्करः । यस्मान्निःस्वभावस्तस्माच्छून्यः । यथा चायमङ्कुरो निःस्वभावो निःस्वभावत्वाच्च शून्यस्तथा सर्वभावा अपि निःस्वभावत्वाच्छून्या ।
 
अत्र वयं ब्रूमः । यद्येवम्, तवापि वचनम् यदेतच्छून्याः सर्वभावा इति तदपि शून्यम् ।
किं कारणम् । तदपि हेतौ नास्ति महाभूतेषु संप्रयुक्तेषु विप्रयुक्तेषु वा, प्रत्ययेषु नास्त्युर:कण्ठौष्ठजिह्वादन्तमूलतालुनासिकामूर्द्धप्रभृतिषु यत्नेषु उभयसामग्र्यां नास्ति, हेतुप्रत्ययविनिर्मुक्तं पृथगेव च नास्ति । यस्मादत्र सर्वत्र नास्ति तस्मान्निःस्वभावम् । यस्मान्निः स्वभावं तस्माच्छून्यम् । तस्मादनेन सर्वभावस्वभावव्यावर्तनमशक्यं कर्तुम् ।
न ह्यसताग्निना शक्यं दग्धुम् । न ह्यसता शस्त्रेण शक्यं छेत्तुम् । न ह्यसतीभिरद्भिः शक्यं क्लेदयितुम् । एवमसता वचनेन न शक्यः सर्वभावस्वभावप्रतिषेधः कर्तुम् । तत्र यदुक्तं सर्वभावस्वभावः प्रतिषिद्ध इति तन्न ।
 
अथ सस्वभावमेतद् वाक्यं पूर्वा हता प्रतिज्ञा ते ।
वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ २ ॥
 
अथापि मन्यसे मा भूदेष दोष इति सस्वभावमेतद्वाक्यं सस्वभावत्वाच्चाशून्यम्
तस्मादनेन सर्वभावस्वभाव: प्रतिषिद्ध इति, अत्र ब्रूमः । यद्येवम्, या ते पूर्वा प्रतिज्ञा,
शून्याः सर्वभावा इति, हता सा ।
 
किं चान्यत् । सर्वभावान्तर्गतञ्च त्वद्वचनम् । कस्माच्छून्येषु सर्वभावेषु त्वद्वचनम
शून्यम्, येनाशून्यत्वात् सर्वभावस्वभावः प्रतिषिद्धः ? एवं षट्कोटिको वादः प्रसक्तः