This page has not been fully proofread.

[Sāma Veda]
 
उत्तरार्चिकः
 
MAHARISHI UNIVERSITY OF MANAGEMENT
 
VEDIC LITERATURE COLLECTION
 
अथ त्रयोदशोऽध्यायः
 
अथ षष्ठप्रपाठके तृतीयोऽर्धः
 
(१-२०) १ कविर्भार्गवः २, ६, १६ भरद्वाजो बार्हस्पत्यः ३ असितः काश्यपो देवलो
वा ४ सुकक्षः आंगिरसः ५ विभ्राट्सौर्यः ६, ८ वसिष्ठो मैत्रावरुणिः १०-१७
भार्गवः प्रागाथः १०, १७ विश्वामित्रो गाथिनः ११ मेधातिथिः काण्वः १२ शतं
वैखानसाः १३ यजत आत्रेयः १४ मधुच्छन्दा वैश्वामित्रः १५ उशना काव्यः १८
 
हर्यतः प्रागाथः १६ बृहद्दिव प्राथर्वणः २० गृत्समदः शौनकः ॥ १, ३, १५
पवमानः सोमः २, ४, ६, ७, १४, १६, २० इन्द्रः ८ सरस्वान् ६ सरस्वती १०
सविता ११ ब्रह्मणस्पतिः १२ अग्निः पवमानः १३ मित्रावरुणौ १६-१८ अग्निः १८
हवींषि वा ५ सूर्यः ॥ १, ३-४, ८- १४, १६ ( २-३ ) १८ गायत्री २ (१-३)
अनुष्टुप् २ (४) बृहती ६, ७ प्रगाथः १६ ( १ ) वर्धमाना १६ त्रिष्टुप् २० (१) अष्टिः
२० (२-३) प्रतिशक्वरी ५ जगती
 
१ २
 
३ २उ
 
३ २३ २ ३ १ २र
 
१४३५ पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि
 

 
१ २३ १ २र
 
अयक्ष्मा बृहतीरिषः १
 
१ २
 
३ १२ ३ २ ३ १ २ ३ २ २र
 
१४३६ तया पवस्व धारया यया गाव इहागमन्
 
१ २ ३ १२
 
३ २
 
जन्यास उप नो गृहम् २
 
३ १ २
 
३ १२
 
३ १२ ३ १२
 
१४३७ घृतं पवस्व धारया यज्ञेषु देववीतमः
 
३ १ २ ३ १ २र
 
अस्मभ्यं वृष्टिमा पव ३
 
१४३८
 
१ २ ३२ ३कऽ १ २ ३ १२
 
३ १२
 
स न ऊर्जे व्य३व्ययं पवित्रं धाव धारया
 
३ १ २ ३ २३ १ २
 
देवासः शृणवन्हि कम् ४
 
198