This page has been fully proofread twice.

इति च । तदानीममानित्वादीनि ज्ञानसाधनान्यद्वेष्टृत्वादयः सद्गुणालंकारवदनुवर्तन्ते । तदुक्तम् -- 'उत्पन्नात्मावबोधस्य ह्यद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः' इति । किं बहुना । अयं देहयात्रामात्रार्थमिच्छानिच्छापरेच्छाप्रापितानि सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नन्तःकरणाभासादीनामवभासकः संस्तदवसाने प्रत्यगानन्दपरब्रह्मणि प्राणे लीने सति, अज्ञानतत्कार्यसंस्काराणामपि विनाशात्परमकैवल्यमा-
 
[commentary]
 
त्त्या सत्त्वम्, उपादानस्याज्ञानस्यानिवृत्तेः । ततश्च यस्य केवलं बाधितानुवृत्त्या प्रपञ्चः स्फुरति, स जीवन्मुक्त इति जीवन्मुक्तलक्षणं सिद्धम् । जीवन्मुक्तस्य नाशुभे प्रवृत्तिरित्याह -- अस्येति ; तत्त्वज्ञानस्य तथैव स्वभाव इति भावः । तदानीमिति, ज्ञानस्य सिद्धत्वादिति भावः । उपसंहरति -- किं बहुनेति । तदवसाने इति प्रारब्धक्षये सतीत्यर्थः ॥