This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
इति च । तदानीममानित्वादीनि ज्ञानसाधना-
न्य
न्यद्वेष्टृत्वादयः सद्गुणालंकारवदनुवर्तन्ते ।
तदुक्तम् -- 'उत्पन्नात्मावबोधस्य ह्यद्वेष्टृत्वा-
दयो गुणाः । अयत्नतो भवन्त्यस्य
न तु साधनरूपिणः' इति । किं बहुना । अयं दे-
हयात्रामात्रार्थमिच्छानिच्छापरेच्छाप्रापितानि
 
न तु
 
सुखदुःखलक्षणान्यारब्धफलान्यनुभवन्नन्तःक-
१०९
 
रणाभासादीनामवभासकः संस्तदवसाने प्रत्य-
गानन्दपरब्रह्मणि प्राणे लीने सति, अज्ञानत-
त्कार्यसंस्काराणामपि विनाशात्परमकैवल्यमा-
च्

 
[commentary]
 
त्त्
या सत्त्वम्, उपादानस्याज्ञानस्यानिवृत्ते:तेः । ततश्च यस्य
केवलं बाधितानुवृत्त्या प्रपञ्च :चः स्फुरति, स जीवन्मुक्त इति
जीवन्मुक्तलक्षणं सिद्धम् । जीवन्मुक्तस्य नाशुभे प्रवृ-
त्तिरित्याह -- अस्येति ; तत्त्वज्ञानस्य तथैव स्वभाव इति
भाव:वः । तदानीमिति, ज्ञानस्य सिद्धत्वादिति भावः ।
उपसंहरति -- किं बहुनेति । तदवसाने इति प्रारब्धक्षये
सतीत्यर्थः ॥