This page has been fully proofread twice.

अस्य ज्ञानात्पूर्वं विद्यमानानामेवाहारविहारादीनामनुवृत्तिवच्छुभवासनानामेवानुवृत्तिर्भवति, शुभाशुभयोरौदासीन्यं वा । तदुक्तम् -- 'बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे' इति 'ब्रह्मवित्वं तथा मुक्त्वा स आत्मज्ञो न चेतरः'
 
[commentary]
 
यस्याः शक्तेर्नाशेन विशिष्टस्याज्ञानस्यापि नाशान्मायेत्युक्तम् । युज्यतेऽनेनेति योजनमात्मतत्त्वसाक्षात्कारः । तस्मादपि मायानिवृत्तिः, व्यावहारिकसत्त्वसंपादनपटीयस्याः शक्तेर्नाशेन तद्विशिष्टस्याज्ञानस्यापि नाशात् । तत्त्वभावस्तत्त्वसाक्षात्कारस्तस्मात्, अन्ते प्रारब्धकर्मणां भोगेन क्षये विश्वमायानिवृत्तिः प्रातिभासिकसत्त्वसंपादनपटीयस्या शक्त्या सहाज्ञानस्य निवृत्तिः । भूयःशब्दश्च पारमार्थिकसत्त्वसंपादनपटीयसीव्यावहारिकसत्त्वसंपादनपटीयसीशक्तिविशिष्टाज्ञाननाशाय क्षयाभ्यासार्थक इत्यर्थः । एवं च तत्त्वसाक्षात्कारे विद्यमानेऽपि प्रारब्धस्य विद्यमानत्वात्प्रातिभासिकसत्त्वसंपादनपटीयस्याः शक्तेः स्वविशिष्टस्याज्ञानस्य च अनिवृत्तिरिति युक्तं प्रपञ्चस्य बाधितानुवृ-