This page has been fully proofread twice.

'सुषुप्तवज्जाग्रति यो न पश्यति इयं च पश्यन्नपि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च यः स आत्मविन्नान्य इतीह निश्चयः' इति ।
 
[commentary]
 
तथा हि -- अज्ञानेऽस्मिञ्शक्तित्रयम् । एका तावत्पारमार्थिकसत्त्वसंपादनपटीयसी शक्तिः । तया च शक्त्या प्रपञ्चे पारमार्थिकत्वं स्फुरति । श्रवणाद्यभ्यासपरिपाकवशेन च सा निवर्तते । तस्यां च निवृत्तायां प्रपञ्चः पारमार्थिकतया न स्फुरति, किं तु व्यावहारिकतया । अतोऽज्ञाने व्यावहारिकसत्त्वसंपादनपटीयस्यपरा शक्तिर्विद्यते । सा च शक्तिरात्मतत्त्वसाक्षात्कारेण निवर्तते । निवृत्तायां च तस्यां प्रपञ्चो न व्यावहारिकतया स्फुरति । किं तु प्रारब्धस्य सत्त्वाद्बाधितानुवृत्त्या स्फुरति । अतः प्रातिभासिकसत्त्वसंपादनपटीयस्यापि शक्तिरज्ञाने विद्यते । सा च भोगेन प्रारब्धक्षयेऽन्तिमतत्त्वसाक्षात्कारेणाज्ञानेन सह निवर्तते । ततो न प्रपञ्चस्फुरणम् । न च अत्र
मानाभावः । 'तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः' इति श्रुतेर्मानत्वात् । अत्र च अभिध्यानशब्देन श्रवणाद्यभ्यासपरिपाक उच्यते । तस्माद्विश्वमायानिवृत्तिरिति प्रथमं संबन्धः । पारमार्थिकसत्त्वसंपादनपटी-