This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
१०७
 
सुषुप्तवज्जाग्रति यो न पश्यति इयं च पश्यन्न-
पि चाद्वयत्वतः । तथा च कुर्वन्नपि निष्क्रियश्च
यः स आत्मविन्नान्य इतीह निश्चयः' इति ।
 
6
 

 
[commentary]
 
तथा हि -- अज्ञानेऽस्मिञ्शक्तित्रयम् । एका ताव-
त्पारमार्थिकसत्त्वसंपादनपटीयसी शक्ति: । तया च
 
तिः । तया च शक्त्या प्रपञ्चे पारमार्थिकत्वं स्फुरति । श्रवणाद्यभ्या-
सपरिपाकवशेन च सा निवर्तते । तस्यां च
तस्यां च नि-
निवृत्तायां प्रपञ्च:चः पारमार्थिकतया न स्फुरति, किं तु व्याव-
हारिकतया । अतोऽज्ञाने व्यावहारिकसत्त्वसंपादनपटीय-
स्यपरा शक्तिर्विद्यते । सा च शक्तिरात्मतत्त्वसाक्षात्कारेण
निवर्तते । निवृत्तायां च तस्यां प्रपञ्चो न व्यावहारिकतया
स्फुरति । किं तु प्रारब्धस्य सत्त्वाद्बाधितानुवृत्त्या स्फुरति ।
अतः प्रातिभासिक सत्त्वसंपादनपटीयस्यापि शक्तिरज्ञाने वि
द्यते । सा च भोगेन प्रारब्धक्षयेऽन्तिमतत्त्वसाक्षात्कारेणाज्ञा-
नेन सह निवर्तते । ततो न प्रपञ्चस्फुरणम् । न च अत्र

मानाभाव:वः । ' तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते
विश्वमायानिवृत्तिः' इति श्रुतेर्मानत्वात् । अत्र च अभिध्या-
नशब्देन श्रवणाद्यभ्यासपरिपाक उच्यते । तस्माद्विश्वमाया-
निवृत्तिरिति प्रथमं संबन्ध:धः । पारमार्थिकसत्त्वसंपादनपटी-