This page has been fully proofread twice.

णितमूत्रपुरीषादिभाजनेन शरीरेण, आन्ध्यमान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेण, अशनायापिपासाशोकमोहादिभाजनेनान्तःकरणेन च पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि बाधितत्वात्परमार्थतो न पश्यति यथेन्द्रजालमिति ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थमिदमिति न पश्यति, 'सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव' इत्यादिश्रुतेः । उक्तं च --
 
[commentary]
 
तत्राह -- अयमित्यादिना । व्युत्थानेति । समाधेः सकाशादिति शेषः । ज्ञानेति । ज्ञानाविरुद्धानि च तान्यारब्धफलानि चेति समासः । बाधितत्वादिति । अयं भावः -- ब्रह्मतत्त्वसाक्षात्कारेणाज्ञानादिसकलप्रपञ्चनिवृत्तावपि भोगैकनाश्यप्रारब्धस्यानिवृत्तेः पुनर्निवृत्तमपि प्रपश्चं बाधितानुवृत्त्या पश्यति । अतो जीवन्मुक्तित्वम् । न च तदानीं सकलकार्योपादानभूताज्ञानस्य निवृत्तेः कथं तत्कार्यस्य बाधितानुवृत्त्यापि सत्त्वम्, उपादानाभावे उपादेयस्यायोगादिति वाच्यम्, अज्ञानस्य सर्वथा अनिवृत्तेः ।