This page has not been fully proofread.

वेदान्तसार:
 
णितमूत्रपुरीषादिभाजनेन शरीरेण, आन्ध्य-
मान्द्यापटुत्वादिभाजनेनेन्द्रियग्रामेण, अशना-
यापिपासाशोकमोहादिभाजनेनान्तःकरणेन च
पूर्वपूर्ववासनया क्रियमाणानि कर्माणि भुज्य-
मानानि ज्ञानाविरुद्धारब्धफलानि च पश्यन्नपि
बाधितत्वात्परमार्थतो न पश्यति यथेन्द्रजाल-
मिति ज्ञानवांस्तदिन्द्रजालं पश्यन्नपि परमार्थ-
मिदमिति न पश्यति, 'सचक्षुरचक्षुरिव सक-
र्णोऽकर्ण इव' इत्यादिश्रुतेः । उक्तं च -
तत्राह - अयमित्यादिना । व्युत्थानेति । समाधेः
सकाशादिति शेषः । ज्ञानेति । ज्ञानाविरुद्धानि च तान्या-
रब्धफलानि चेति समास: । बाधितत्वादिति । अयं
भावः – ब्रह्मतत्त्वसाक्षात्कारेणाज्ञानादिसकलप्रपञ्च निवृत्ता-
वपि भोगैकनाश्यप्रारब्धस्यानिवृत्तेः पुनर्निवृत्तमपि प्रपश्चं
बाधितानुवृत्त्या पश्यति । अतो जीवन्मुक्तित्वम् । न च
तदानीं सकलकार्योपादानभूताज्ञानस्य निवृत्ते: कथं तत्का-
र्यस्य बाधितानुवृत्त्यापि सत्त्वम् उपादानाभावे उपा-
देयस्यायोगादिति वाच्यम्, अज्ञानस्य सर्वथा अनिवृत्ते: ।
 
-
 
,