This page has been fully proofread twice.

नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते, अज्ञानतत्कार्यसंचितकर्मसंशयविपर्ययादीनामपि बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ; 'भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे' इत्यादिश्रुतेः । अयं तु व्युत्थानसमये मांसशो-
 
[commentary]
 
इति संबन्धः । प्रपञ्चसत्त्वात्कथं ब्रह्मनिष्ठत्वम् ? तत्राह -- अखिलेति । बन्धराहित्ये हेतुमाह -- अज्ञानेति । संचितेति । प्रारब्धकर्मणां तु भोगेनैव क्षयः, 'नाभुक्तं क्षीयते कर्म' इति वचनात् । न च संचितस्यापि ज्ञानेन नाशे मानाभावः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति वचनस्यैव मानत्वात् । न च प्रारब्धसंचितयोरभेदः ; प्रायणकाले चोद्बुद्धवृत्तिकस्य प्रारब्धत्वात्, अनुद्बुद्धवृत्तिकस्य तु संचितत्वादिति भावः । अज्ञानादिबाधने हेतुमाह -- स्वेति । तत्र संमतिमाह - - भिद्यत इति । हृदयग्रन्थिः चिदचिद्ग्रन्थिः, अहंकार इति यावत् । अज्ञानादिसकलस्य
बाधनात्परममुक्तित्वमेव युक्तम्, न तु जीवन्मुक्तित्वम्,