This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
नाम स्वस्वरूपाखण्डब्रह्मज्ञानेन
 
तद्ज्ञानवाधन-
तदज्ञानबाधनद्वारा स्वस्वरूपाखण्डब्रह्मणि साक्षात्कृते, अ-
ज्ञानतत्कार्यसंचितकर्मसंशयविपर्ययादीनामपि
 
१०५
 
बाधितत्वादखिलबन्धरहितो ब्रह्मनिष्ठः ; 'भि-
द्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीय-
न्ते चास्य कर्माणि तम्स्मिन्दृष्टे परावरे' इत्या-
दिश्रुतेः । अयं तु व्युत्थानसमये मांसशो-
9
 

 
[commentary]
 
इति संबन्ध:धः । प्रपञ्चसत्त्वात्कथं ब्रह्मनिष्ठत्वम् ? तत्राह --
अखिलेति । बन्धराहित्ये हेतुमाह -- अज्ञानेति । संचि-
तेति । प्रारब्धकर्मणां तु भोगेनैव क्षयः, 'नाभुक्तं क्षीयते
कर्म' इति वचनात् । न च संचितस्यापि ज्ञानेन नाशे
मानाभावः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन
' इति वचनस्यैव मानत्वात् । न च प्रारब्धसंचितयोरभेदः ;
प्रायणकाले चोद्बुद्धवृत्तिकस्य प्रारब्धत्वात्, अनुद्बुद्धवृत्तिकस्य
तु संचितत्वादिति भावः । अज्ञानादिबाधने हेतुमाह-
-- स्वेति । तत्र संमतिमाह - - भिद्यत इति । हृदयग्रन्थिः चि
दचिद्ग्रन्थिः, अहंकार इति यावत् । अज्ञानादिसकलस्य

बाधनात्परममुक्तित्वमेव युक्तम, न तु जीवन्मुक्तित्वम्,
 
--
 
-
 
न तु जीवन्मुक्तित्वम्,