This page has been fully proofread twice.

चित्तवृत्ते रागादिवासनया स्तब्धीभावाखण्डवस्त्वनवलम्बनं कषायः । अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं रसास्वादः, समाध्यारम्भसमये सविकल्पकानन्दास्वादनं वा ॥
 
अनेन विघ्नचतुष्टयेन विरहितं चित्तं निवातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते यदा, तदा निर्विकल्पकः समाधिरित्युच्यते । तदुक्तम् -- 'लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजानीयात्समप्राप्तं न चालयेत् ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत्' इति 'यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता' इति च ॥
 
अथ जीवन्मुक्तलक्षणमुच्यते -- जीवन्मुक्तो
 
[commentary]
 
विक्षेपादीनां दोषत्वे संमतिमाह -- तदुक्तमिति ॥
 
प्रसङ्गादाह -- अथेति । जीवन्मुक्तो नाम ब्रह्मनिष्ठ