This page has not been fully proofread.

१०४
 
वेदान्तसारः
 
चित्तवृत्ते रागादिवासनया स्तब्धीभावाखण्ड -
वस्त्वनवलम्बनं कषायः । अखण्डवस्त्वनवल-
म्बनेनापि चित्तवृत्तेः सविकल्पकानन्दास्वादनं
रसास्वादः, समाध्यारम्भसमये सविकल्पका-
नन्दास्वादनं वा ॥
 
अनेन विघ्नचतुष्टयेन विरहितं चित्तं निवात-
दीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते य
दा, तदा निर्विकल्पकः समाधिरित्युच्यते ।
तदुक्तम्- 'लये संबोधयेच्चित्तं विक्षिप्तं राम-
येत्पुनः । सकषायं विजानीयात्समप्राप्तं न
चालयेत् ॥ नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञ्या
भवेत्' इति 'यथा दीपो निवातस्थो नेङ्गते
सोपमा स्मृता' इति च ॥
 
अथ
 
-
 
जीवन्मुक्तलक्षणमुच्यते - जीवन्मुक्तो
 
-
 
विश्लेषादीनां दोषत्वे संमतिमाह - तदुक्तमिति ॥
प्रसङ्गादाह — अथेति । जीवन्मुक्तो नाम ब्रह्मनिष्ठ