This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
स्तं
स्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसंतोषतपः-
स्वाध्यायेश्वरप्रणिधानानि नियमाः । करचरणा-
दिसंस्थान विशेषलक्षणानि पद्मस्वस्तिकादीन्या-
सनानि । रेचकपूरककुम्भकलक्षणाः प्राणनिग्र-
होपायाः प्राणायामाः । इन्द्रियाणां स्वस्ववि
षयेभ्यः प्रत्याहरणं प्रत्याहारः । अद्वितीयवस्तु-
न्यन्तरिन्द्रियधारणं धारणा । तत्राद्वितीयव-
स्तुनि विच्छिद्य विच्छिद्यान्तरिन्द्रियवृत्तिप्रवा-
हो ध्यानम् । समाधिस्तूक्तः सविकल्पक एव
 
१०३
 

 
एवमस्याङ्गिनो निर्विकल्पकस्य लविक्षेप-
कषायरसाखास्वादलक्षणाश्चत्वारो विघ्नाः संभव-
न्ति । लयस्तावदखण्डवस्त्वनवलम्बनेन चित्त-
वृत्तेर्निद्रा । अखण्डवस्त्वनवलम्बनेन चित्तवृत्ते-
रन्था
रन्यावलम्बनं विक्षेपः । लयविक्षेपाभावेऽपि
 

 
[commentary]
 
सविकल्पकः समाधिरुच्यते । अस्तेयेति पदच्छेदः । प्रणि-
धानं सेवनम् । उत्तरो ग्रन्थः स्पष्टः