This page has been fully proofread twice.

निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षया अद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरतितरामेकीभावेनावस्थानम् । तदा तु जलाकाराकारितलवणानवभासेन जलमात्रावभासवदद्वितीयवस्त्वाकाराकारितचित्तवृत्यनवभासेनाद्वितीयवस्तुमात्रमवभासते । ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि तत्सद्भावासद्भावमात्रेणानयोर्भेदोपपत्तेः ॥
 
अस्याङ्गानि यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः । तत्राहिंसासत्या-
 
[commentary]
 
यादिविकल्पलय इति भावः । अतितरामिति, विस्पष्टमनवभासनादिति भावः । दृष्टान्तमाह -- जलेति । निर्विकल्पकसमाधेर्निद्रातो विशेषमाह -- ततश्चेति । यद्यपि सुषुप्तिदशायामविद्यावृत्तिसद्भावोऽस्त्येव, तथाप्यन्तःकरणवृत्त्यभावेन वैषम्यम् ॥
 
अस्येति, निर्विकल्पकसमाधेरित्यर्थः । समाधिशब्देन