This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षया
अद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्ते-
रतितरामे की भावेनावस्थानम् । तदा तु जला-
काराकारितलवणानवभासेन जलमात्रावभास-
वदद्वितीयवस्त्वाकाराकारितचित्तवृत्यनवभा-
सेनाद्वितीयवस्तुमात्रमवभासते । ततश्चास्य
सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्य-
भाने समानेऽपि तत्सद्भावासद्भावमात्रेणान-
योर्भेदोपपत्तेः ॥
 

 
अस्याङ्गानि यमनियमासनप्राणायामप्रत्या-
हारधारणाध्यानसमाधयः । तत्राहिंसासत्या-

 

 
[commentary]
 
यादिविकल्पलंय इति भावः । अतितरामिति, विस्पष्टम-
नवभासनादिति भाव:वः । दृष्टान्तमाह -- जलेति । निर्वि-
कल्पकसमाधेर्निद्रातो विशेषमाह -- ततश्चेति । यद्यपि सुषु-
प्तिदशायामविद्यावृत्तिसद्भावोऽस्त्येव, तथाप्यन्तःकरणवृत्त्यभा-
वेन वैषम्यम् ॥
 
-
 

 
अस्येति, निर्विकल्पकसमाधेरित्यर्थः । समाधिशब्देन