This page has been fully proofread twice.

वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् । विजातीयदेहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् । समाधिर्द्विविधः सविकल्पको निर्विकल्पकश्चेति । तत्र सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलयानपेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्तवृत्तेरवस्थानम् । तदा मृन्मयगजादिभानेऽपि मृद्भानवद्द्वैतभानेऽप्यद्वैतं वस्तु भासते । तदुक्तम् -- 'दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं यदद्वयं तदेव चाहं सततं विमुक्त ओम्' इति ।
 
[commentary]
 
अनवरतमिति । शरीरयात्रासमयातिरिक्तसमय इत्यर्थः । व्यवधानेन कृतस्य फलाजनकत्वादिति भावः । ज्ञानादीत्यत्र आदिशब्देन ज्ञेयमुच्यते । दृशिस्वरूपमिति, चिद्रूपमित्यर्थः । गगनोपममिति, असङ्गमित्यर्थः । सकृदिति, स्वप्रकाशमित्यर्थः । अक्षरमिति, नाशशून्यमित्यर्थः । अलेपकमिति । लेपः संसारः । तदेव चेति, तथा च न ज्ञातृज्ञे-