This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
वेदान्तानुगुणयुक्तिभिरनवरतमनुचिन्तनम् ।
विजातीय देहादिप्रत्ययरहिताद्वितीयवस्तुसजा-
तीयप्रत्ययप्रवाहो निदिध्यासनम् । समाधि-
र्द्विविधः सविकल्पको निर्विकल्पकश्चेति । तत्र
सविकल्पको नाम ज्ञातृज्ञानादिविकल्पलया-
नपेक्षयाद्वितीयवस्तुनि तदाकाराकारिताया-
श्चित्तवृत्तेरवस्थानम् । तदा मृन्मयगजादिभा-
नेऽपि मृद्भानवद्द्वैतभानेऽप्यद्वैतं वस्तु भाते ।
तदुक्तम् -- 'दृशिस्वरूपं गगनोपमं परं सकू-
कृद्विभातं त्वजमेकमक्षरम् । अलेपकं सर्वगतं य-
दद्वयं तदेव चाहं सततं विमुक्त ओम्' इति ।
 

 
[commentary]
 
अनवरतमिति । शरीरयात्रासमयातिरिक्तसमय इत्यर्थः ।
व्यवधानेन कृतस्य फलाजनकत्वादिति भावः । ज्ञानादीत्यत्र
आदिशब्देन ज्ञेयमुच्यते । दृशिस्वरूपमिति, चिद्रूपमित्यर्थः ।
गगनोपममिति, असङ्गमित्यर्थः । सकृदिति, स्वप्रकाश-
मित्यर्थः । अक्षरमिति, नाशशून्यमित्यर्थः । अलेपक-
मिति । लेपः संसारः । तदेव चेति, तथा च न ज्ञातृज्ञे-