This page has been fully proofread twice.

इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं श्रूयते । प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव 'उत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्' इत्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रतिपाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिरुपपत्तिः । यथा तत्र 'यथा सोम्यैकेन मृत्पिण्डेन
सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादावद्वितीयवस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते । मननं तु श्रुतस्याद्वितीयवस्तुनो
 
[commentary]
 
आचार्येति । ज्ञानप्रयोजनश्रुतिमुदाहरति -- तस्येति । तस्योत्पन्नतत्त्वसाक्षात्कारस्य तावदेव चिरमज्ञाननिवृत्तौ तावानेव विलम्बः, यावन्न विमोक्ष्ये यावत्प्रारब्धकर्मणा न विमुक्तो भवतीत्यर्थः । अद्वितीयवस्तुज्ञानस्येत्यग्रे श्रवणाद्यनुष्ठानस्य वेति शेषः । तत्प्राप्तिः, ज्ञानप्राप्तिश्चैतन्यप्राप्तिश्चेत्यर्थः ।
आदिश्यतेऽसावादेशोऽर्थः, तमर्थमप्राक्ष्यः पृष्टवानसीत्यर्थः ।