2023-03-01 15:22:38 by ambuda-bot
This page has not been fully proofread.
वेदान्तसारः
इत्यद्वितीयवस्तुज्ञानस्य तत्प्राप्तिः प्रयोजनं भू-
यते । प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसन-
मर्थवादः । यथा तत्रैव 'उत तमादेशमप्राक्ष्यो
येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञा-
तम्' इत्यद्वितीयवस्तुप्रशंसनम् । प्रकरणप्रति
पाद्यार्थसाधने तत्र तत्र श्रूयमाणा युक्तिरुपप-
त्तिः । यथा तत्र 'यथा सोम्यैकेन मृत्पिण्डेन
सर्व मृन्मयं विज्ञातं खाद्वाचारम्भणं विकारो
नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादावद्वितीय-
वस्तुसाधने विकारस्य वाचारम्भणमात्रत्वे यु-
क्तिः श्रूयते । मननं तु श्रुतस्याद्वितीयवस्तुनो
आचार्येति । ज्ञानप्रयोजनश्रुतिमुदाहरति -- तस्येति । त-
स्योत्पन्नतत्त्वसाक्षात्कारस्य तावदेव चिरमज्ञाननिवृत्तौ तावा-
नेव विलम्ब:, यावन्न विमोक्ष्ये यावत्प्रारब्धकर्मणा न वि-
मुक्तो भवतीत्यर्थः । अद्वितीयवस्तुज्ञानस्येत्यग्रे श्रवणाद्यनुष्ठा-
नस्य वेति शेषः । तत्प्राप्तिः, ज्ञानप्राप्तिश्चैतन्यप्राप्तिश्चेत्यर्थः ।
आदिश्यतेऽसावादेशोऽर्थः, तमर्थमप्राक्ष्य: पृष्टवानसीत्यर्थः ।