This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
पाद्यस्याद्वितीयवस्तुनः 'एकमेवाद्वितीयम्' इ-
त्यादौ 'ऐतदात्म्यमिदं सर्वम्' इत्यन्ते च
प्रतिपादनम् । प्रकरणप्रतिपाद्यस्य वस्तुनस्तन्म-
ध्ये पौनःपुन्येन प्रतिपादनमभ्यासः । यथा
तत्रैवाद्वितीयवस्तुनि मध्ये 'तत्त्वमसि' इति
नवकृत्वः प्रतिपादनम् । प्रकरणप्रतिपाद्यस्या-
द्वितीयवस्तुनः प्रमाणान्तराविषयीकरणमपूर्व-
ता । यथा तत्रैवाद्वितीयवस्तुनो मानान्तरावि-
षयीकरणम् । फलं तु प्रकरणप्रतिपाद्यस्यात्म-
ज्ञानस्य तद्नुष्ठानस्य वा तत्र तत्र श्रूयमाणं प्र-
योजनम् । यथा तत्र 'आचार्यवान्पुरुषो वेद
तल
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्ये '
 
९९
 
स्ये'
 
[commentary]
 
दाद्यन्तयोरिति, प्रकरणाद्यन्तयोरित्यर्थः । तन्मध्य इति,
प्रकरणमध्ये इत्यर्थः । तत्रैवेति, छान्दोग्ये इत्यर्थः ।
मानान्तरेति, तस्योपनिषन्मात्रगम्यत्वादिति भावः । तद-
नुष्ठानस्येति, ज्ञानानुकूलश्रवणाद्यनुष्ठानस्येत्यर्थः, श्रवणाद्य-
नुष्ठानस्योपस्थितत्वात् । तत्प्रयोजनश्रुतिं तावदुदाहरति -
-