This page has been fully proofread twice.

धारणम् । लिङ्गानि तु उपक्रमोपसंहाराभ्यासापूर्वताफलार्थवादोपपत्त्याख्यानि । प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसंहारौ । यथा च्छान्दोग्ये षष्ठाध्याये प्रकरणप्रति-
 
[commentary]
 
इत्यर्थः । अवधारणस्यैव श्रवणत्वे श्रवणविधिविधेयत्वं न स्यात्, सिद्धान्ते ज्ञाने विध्यभावात्, अवधारणस्यैव ज्ञानत्वात् । ननु 'श्रोतव्यः' इति श्रवणविधिः । तेन च न श्रवणं विधातुं शक्यते, उपक्रमोपसंहारादिपर्यालोचनया तस्यात्मपरत्वावगमात् । अतः श्रवणस्याविधेयत्वान्नोक्तदोष इति चेत्, न, 'श्रोतव्यः' इति वाक्येन श्रवणस्याविधेयत्वेऽपि श्रवणेऽधिकविध्यङ्गीकारात् । अन्ये पुनराचार्याः -- 'श्रोतव्यः' इति वाक्येनैव श्रवणं विधीयते, उपक्रमोपसंहारादिपर्यालोचनया आत्मपरतावगमेऽप्यवान्तरतात्पर्येण श्रवणपरत्वात् । यथा 'विविदिषन्ति' इति वाक्यमात्मपरमप्यवान्तरतात्पर्येण यज्ञादि विधत्ते, तद्वदित्याहुः । एवं च श्रवणस्यावधारणरूपत्वे विधानमनुपपन्नमिति तदनुकूलो विचार एव श्रवणम् । उपक्रमोपसंहाराविति समस्य वचनमुपक्रमोपसंहारयोरैकरूप्यमेकं लिङ्गमिति सूचनार्थम् । त-