This page has been fully proofread once and needs a second look.

वेदान्तसार:
 
धारणम् । लिङ्गानि तु उपक्रमोपसंहाराभ्यासा
पूर्वताफलार्थवादोपपत्त्याख्यानि । प्रकरणप्रति-
पाद्यस्यार्थस्य तदाद्यन्तयोरुपपादनमुपक्रमोपसं-
हारौ । यथा च्छान्दोग्ये षष्ठाध्याये प्रकरणप्रति-
९८
 

 
[commentary]
 
इत्यर्थ:थः । अवधारणस्यैव श्रवणत्वे श्रवणविधिविधेयत्वं न
स्यात्, सिद्धान्ते ज्ञाने विध्यभावात्, अवधारणस्यैव
ज्ञानत्वात् । ननु ' श्रोतव्यः' इति श्रवणविधिः । तेन च
न श्रवणं विधातुं शक्यते, उपक्रमोपसंहारादिपर्यालोचनया
तस्यात्मपरत्वावगमात् । अतः श्रवणस्याविधेयत्वान्नोक्तदोष
इति चेत्, न, 'श्रोतव्यः' इति वाक्येन श्रवणस्याविधेय-
त्वेऽपि श्रवणेऽधिकविध्यङ्गीकारात् । अन्ये पुनराचार्या:याः -
- 'श्रोतव्यः' इति वाक्येनैव श्रवणं विधीयते., उपक्रमोपसं-
हारादिपर्यालोचनया आत्मपरतावगमेऽप्यवान्तरतात्पर्येण श्र-
वणपरत्वात् । यथा 'विविदिषन्ति' इति वाक्यमात्मपरम-
व्
प्यवान्तरतात्पर्येण यज्ञादि विधत्ते, तद्वदित्याहुः । एवं च
श्रवणस्यावधारणरूपत्वे विधानमनुपपन्न मिति तदनुकूलो वि
चार एव श्रवणम् । उपक्रमोपसंहाराविति समस्य वचन-
मुपक्रमोपसंहारयोरैक रूप्य मेकं लिङ्गमिति सूचनार्थम् । त
 

 
-