This page has been fully proofread twice.

नपुरःसरं स्वगतचिदाभासेन जडं घटमपि भासयति । तदुक्तम् -- 'बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत्' इति । यथा दीपप्रभामण्डलमन्धकारगतं घटपटादिकं विषयकृत्य तद्गतान्धकारनिरसनपुरःसरं स्वप्रभया तदपि भासयतीति ॥
 
एवंभूतस्वस्वरूपचैतन्यसाक्षात्कारपर्यन्तं श्रवणमनननिदिध्यासनसमाध्यनुष्ठानस्यापेक्षितत्वात्तेऽपि प्रदर्श्यन्ते -- श्रवणं नाम षड्विधलिङ्गैरशेषवेदान्तानामद्वितीयवस्तुनि तात्पर्याव-
 
[commentary]
 
र्यार्थं तूलाज्ञानं स्वीक्रियते, तदा तु तदेव 'घटं न जानामि' इति प्रतीतेर्विषयः । तस्मादेव च रजतमुत्पद्यते । वृत्त्या तु सकार्यस्य तस्य निवृत्तिः क्रियते । ततश्च तूलाज्ञानपक्ष एवाज्ञानवृत्तिः । तस्माद्युक्तमुक्तमेतच्च तूलाज्ञानपक्ष इति । चिदाभासेनेति । केवलाया वृत्तेर्जडत्वेन अभासकत्वादिति भावः ॥
 
तात्पर्यावधारणमिति । तात्पर्यावधारणानुकूलो विचार