2023-10-13 06:22:47 by Bharadwajraki
This page has been fully proofread twice.
अतस्तदावरणं चिन्मात्रनिष्ठमितीश्वरेऽपि मूलावरणमध्यस्तमिति वक्तव्यम् । ईश्वरे घटादयोऽप्यध्यस्ताः, तस्य सर्वज्ञत्वात् । अतो घटावरणयोरेकत्राध्यासादावरणस्यानिर्वचनीयसंसर्गो घटे उत्पद्यते । तं च संसर्गमादाय 'घटं न जानामि' इति प्रतीतिः । यथैकस्मिन्स्फटिकाचले प्रतिबिम्बितयोर्लौहित्यमुखयोः 'लोहितं मुखम्' इति परस्परसंसर्गोऽवभासते, तद्वत् । तदुक्तम् -- 'विषयैः सहाज्ञानस्य साक्षिचैतन्येऽध्यासात्प्रतिभासः' इति । अज्ञानस्याज्ञानावरणस्य साक्षिचैतन्ये ईश्वरचैतन्येऽध्यासाच्चिन्मात्रविषय इति 'घटं न जानामि' इति प्रतिभास इत्यर्थः । एवं च अज्ञानस्य चिन्मात्रविषयत्वेऽप्यनिर्वचनीयावरणसंसर्गमादाय घटस्याप्यज्ञानविषयत्वाद्युक्तैव 'घटं न जानामि'
इति प्रतीतिः । रजतं तु शुक्तौ जनितावरणसंसर्गान्मूलाज्ञानादेवोत्पद्यते । वृत्त्या तु प्रावरणसंसर्गमात्रनिवृत्तिः, नाज्ञाननिवृत्तिः, तस्य ब्रह्मज्ञाननिवर्त्यत्वात् । यदापि 'घटं न जानामि' इति प्रतीतिं व्याख्यातुं तन्मात्रनिष्ठावरणातिरिक्तं परिच्छिन्नं घटे आवरणं स्वीक्रियते, तदापि वृत्त्या आवरणमात्रनिवृत्तिः ; नाज्ञाननिवृत्तिः, उक्तहेतोः । यदा तु सविलासाज्ञाननिवृत्तिर्बाधः, अज्ञानं प्रमाणमित्यादिव्यवहारसौक-