This page has been fully proofread once and needs a second look.

वेदान्तसार:
 
6
 
अतस्तदावरणं चिन्मात्रनिष्ठमितीश्वरेऽपि मूलावरणमध्यस्त-
मिति वक्तव्यम् । ईश्वरे घटादयोऽप्यध्यस्ता:ताः, तस्य स-
र्वज्ञत्वात् । अतो घटावरणयोरेकत्राध्यासादावरणस्यानि-
र्वचनीयसंसर्गो घटे उत्पद्यते । तं च संसर्गमादाय
'घटं न जानामि' इति प्रतीतिः । यथै कस्मिन्स्फ-
टिकाचले प्रतिबिम्बितयोर्लौहित्यमुखयोः 'लोहितं मुखम्'
इति परस्परसंसर्गोऽवभासते, तद्वत् । तदुक्तम् – ' -- 'विषयैः
सहाज्ञानस्य साक्षिचैतन्येऽध्यासात्प्रतिभास: सः' इति । अज्ञा-
नस्याज्ञानावरणस्य साक्षिचैतन्ये ईश्वरचैतन्येऽध्यासाच्चिन्मा-
त्रविषय इति ' घटं न जानामि' इति प्रतिभास इत्यर्थः ।
एवं च अज्ञानस्य चिन्मात्रविषयत्वेऽप्यनिर्वचनीयावरणसंस-
र्गमादाय घटस्याप्यज्ञानविषयत्वाद्युक्तैव 'घटं न जानामि'

इति प्रतीति:तिः । रजतं तु शुक्तौ जनितावरणसंसर्गान्मूलाज्ञा-
नादेवोत्पद्यते । वृत्त्या तु प्रावरणसंसर्गमात्रनिवृत्तिः, नाज्ञा-
ननिवृत्तिः, तस्य ब्रह्मज्ञाननिवर्त्यत्वात् । यदापि 'घटं न
जानामि' इति प्रतीतिं व्याख्यातुं तन्मात्रनिष्ठावरणातिरिक्तं
परिच्छिन्नं घटे आवरणं स्वीक्रियते, तदापि वृत्त्या आवरणमा-
त्रनिवृत्ति:तिः ; नाज्ञाननिवृत्तिः, उक्तहेतोः । यदा तु सविला-
साज्ञाननिवृत्तिर्बाधः, अज्ञानं प्रमाणमित्यादिव्यवहारसौक-
९६
 
.