This page has been fully proofread twice.

दार्थाकाराकारितचित्तवृत्तेर्विशेषोऽस्ति । तथा हि -- 'अयं घटः' इति घटाकाराकारितचित्तवृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरस-
 
[commentary]
 
शुद्धचैतन्यस्फोरण इत्यर्थः । घटमिति, घटावच्छिन्नचैतन्यमित्यर्थः । अज्ञानस्य चैतन्यविषयत्वेन वृत्तेरपि चैतन्यविषयत्वात्, ज्ञानाज्ञानयोः समानविषयत्वनियमात् । अज्ञानस्य च चैतन्यविषयत्वमुपपादितमधस्तात् । अज्ञानेति । एतच्च तूलाज्ञानपक्षे । तथा हि -- 'घटं न जानामि' इति प्रतीतिश्चतुर्धा व्याख्याता विवरणे -- वृत्त्यभावविषयत्वेन, आवरणसंसर्गविषयत्वेन, आवरणान्तराविषयत्वेन, तूलाज्ञानविषयत्वेन च । तत्र यदा 'घटं न जानामि' इति प्रतीतेर्वृत्त्यभावविषयत्वम्, तदा अखण्डचैतन्यविषयकमूलाज्ञानातिरिक्तमज्ञानं नास्ति, वृत्त्यभावोपलक्षितान्मूलाज्ञानादेवोपपत्तेः । वृत्त्या तु रजतमात्रं निवर्तते ; नाज्ञानम्, तस्याखण्डचैतन्यविषयवृत्तिनिवर्त्यत्वात् । तदुक्तम् -- 'स्वाकारे प्रविलयमात्रं क्रियते' इति । यदाप्यनिर्वचनीयमूलावरणसंसर्गमादाय 'घटं न जानामि' इति प्रतीतिव्याख्यानम्, तदापि नाज्ञाननिवृत्तिः । तथा हि -- अज्ञानं तावच्चिन्मात्रविषयम् ।