This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
दार्थाकाराकारितचित्तवृत्तर्विशेषोऽस्ति । तथा
हि -- 'अयं घटः' इति घटाकाराकारितचित्त-
वृत्तिरज्ञातं घटं विषयीकृत्य तद्गताज्ञाननिरस-
९५
 
-
 

 
[commentary]
 
शुद्धचैतन्यस्फोरण इत्यर्थ:थः । घटमिति, घटावच्छिन्न चैतन्य -
मित्यर्थ:थः । अज्ञानस्य चैतन्यविषयत्वेन वृत्तेरपि चैतन्यविष-
यत्वात्, ज्ञानाज्ञानयोः समानविषयत्वनियमात् । अज्ञानस्य च
चैतन्यविषयत्वमुपपादितमधस्तात् । अज्ञानेति । एतच्च तूला-
ज्ञानपक्षे । तथा हि -- 'घटं न जानामि' इति प्रतीतिश्चतु-
र्धा व्याख्याता विवरणे -- वृत्त्यभावविषयत्वेन, आवरण-
संसर्गविषयत्वेन, आवरणान्तराविषयत्वेन, तूलाज्ञानविष
यत्वेन च । तत्र यदा ' घटं न जानामि' इति प्रतीतेर्वृत्त्यभाववि-
षयत्वम्, तदा अखण्डचैतन्यविषयक मूलाज्ञानातिरिक्तमज्ञा-
नं नास्ति, वृत्त्यभावोपलक्षितान्मूलाज्ञानादेवोपपत्तेः । वृत्त्या
तु रजतमात्रं निवर्तते ; नाज्ञानम्, तखास्याखण्डचैतन्यविषयवृ-
त्तिनिवर्त्यत्वात् । तदुक्तम् -- 'स्वाकारे प्रविलयमात्रं क्रि-
यते' इति । यदाप्यनिर्वचनीयमूलावरणसंसर्गमादाय 'घटं
न जानामि' इति प्रतीतिव्याख्यानम्, तदापि नाज्ञान-
निवृत्तिः । तथा हि -- अज्ञानं तावच्चिन्मात्रविषयम् ।