This page has been fully proofread twice.

त्यप्रभावभासनासमर्था सती तथा अभिभूता भवति, तथा स्वयंप्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया तेनाभिभूतं सत्स्वोपाधिभूताखण्डवृत्तेर्बाधितत्वाद्दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नपरब्रह्ममात्रं भवति ॥
 
एवं च सति 'मनसैवानुद्रष्टव्यम्' 'यन्मनसा न मनुते' इत्यनयोः श्रुत्योरविरोधः, वृत्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेधप्रतिपादनात् । तदुक्तम् -- 'फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् । ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता' इति, 'स्वयं प्रकाशमानत्वान्नाभास उपयुज्यते' इति च । जडप-
 
[commentary]
 
तदुपपादनफलमाह -- एवमिति । विषयेऽभिव्यक्तं चैतन्यं फलम् । चैतन्ये च न चैतन्याभिव्यक्तिः, आत्माश्रयात्स्वयंप्रकाशत्वाच्चेति भावः । अस्येति, चैतन्यस्येत्यर्थः । आभासो वृत्तिप्रतिबिम्बितं चैतन्यम् । उपयुज्यत इति,