This page has been fully proofread once and needs a second look.

वेदान्तसारः
 
त्यप्रभावभासनासमर्था सती तथा अभिभूता
भवति, तथा स्वयंप्रकाशमानप्रत्यगभिन्नपर-
ब्रह्मावभासनानर्हतया तेनाभिभूतं सत्स्वोपा-
धिभूताखण्डवृत्तेर्बाधितत्वाद्दर्पणाभावे मुखप्र
तिबिम्बस्य मुखमात्रत्ववत् प्रत्यगभिन्नपरब्रह्म-
मात्रं भवति ॥
 
९४
 

 
एवं च सति 'मनसैवानुद्रष्टव्यम्' 'यन्म-
नसा न मनुते' इत्यनयोः श्रुत्योरविरोधः, वृ-
त्तिव्याप्यत्वाङ्गीकारेण फलव्याप्यत्वप्रतिषेध
प्रतिपादनात् । तदुक्तम् -- 'फलव्याप्यत्वमेवा-
स्य शास्त्रकृद्भिर्निवारितम् । ब्रह्मण्यज्ञाननाशा-
य वृत्तिव्याप्तिरपेक्षिता' इति, 'स्वयं प्रकाश-
मानत्वान्नाभास उपयुज्यते' इति च । जडप-

 
[commentary]
 
तदुपपादनफलमाह -- एवमिति । विषयेऽभिव्यक्तं चै-
तन्यं फलम् । चैतन्ये च न चैतन्याभिव्यक्तिः, आत्माश्र-
यात्स्वयंप्रकाशत्वाञ्च्चेति भावः । अस्येति, चैतन्यस्येत्यर्थः ।
आभासो वृत्तिप्रतिबिम्बितं चैतन्यम् । उपयुज्यत इति,