This page has been fully proofread twice.

द्धबुद्धमुक्तसत्यस्वभावपरमानन्दानन्ताद्वयं ब्रह्मास्मि' इत्यखण्डाकाराकारिता चित्तवृत्तिरुदेति । सा तु चित्प्रतिबिम्बसहिता सती प्रत्यगभिन्नं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव बाधते । तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति, तत्कार्यस्याखिलस्य बाधितत्वात्तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति । तत्र प्रतिबिम्बितं चैतन्यमपि यथा दीपप्रभादि-
 
[commentary]
 
न्तशब्देन व्यापकत्वमुच्यते । अखण्डाकाराकारितेति, अखण्डाकारगोचरेत्यर्थः । उदेति, सा एतद्वाक्यस्य शक्योऽर्थ इति शेषः । वृत्तेः प्रयोजनमाह -- सा त्विति । अज्ञानमेवेत्यत्र एवकारेण चैतन्यस्फोरकत्वं वृत्तेर्व्यावर्त्यते । नन्वज्ञाननिवर्तकवृत्तिनिवृत्त्यर्थं वृत्त्यन्तरमपेक्षणीयं न वा । आद्ये,
अनवस्था । अन्त्ये, तन्निवर्तकाभावेन तस्याः सत्त्वात्तयैव सद्वितीयत्वम्, तत्राह -- तदेति । अज्ञाननिवर्तिका वृत्तिः स्वस्या अपि बाधिका कतकरजोन्यायेनेति भावः । वृत्त्या अज्ञानमात्रं निवर्त्यते, न चैतन्यं स्फोर्यत इत्युक्तम् ॥